________________
કરછ
सिद्धिविनिश्चयटीकायाम् [७ शास्त्रसिद्धिः सच्चेतनादिरूपतया स्वलय (स्वय)मवगच्छति तथा चेत् 'प्रकृतिविविक्तया (क्ततया) ; तर्हि सर्वदा 'प्रकृतिपुरुषान्तरतत्त्वपरिज्ञानाव (नात् ) कुत इयं भ्रान्तिः
*"तस्मात्तत्संसर्गादचेतनं चेतनवदिह लिङ्गम् ।
गुणकत त्वे च तथा कर्त्तव भवत्युदासीनः॥" [सांख्यका० २०] इति यतः संसार स्यात् ? नहि निरंशयोस्तयोः संयोगेऽपि ततथातेदने (तथा भेदज्ञाने) उपचारभ्रान्ति[३८९ ख] संभवः । प्रकृतेः सा भ्रान्तिः न पुरुषस्य इति चेत् । तस्याः स्वरूपावेदने कुतस्तद्व्यवस्था ? न ह्यचेतनमेवमवैति-'ममात्र भ्रान्तिः' इति । तद्वेदने पुरुषकल्पनाऽनर्थक्यम् । पुरुषोऽवैति चेत् ; न ; तेन प्रकृतेरवेदने तदयोगात् । वेदने यथा
तस्यैव स्वप्रधानग्रहणं यथार्थम् , अयथार्थग्रहणं कुतश्चित्तथास्तु किं प्रकृतेर्विभ्रमकल्पे न (कल्प१० नेन) । कथमेकस्य विभ्रमेतरकल्पनम् ? कथं प्रधानस्य॑ ? परिणामित्वात् ; पुरुषेऽपि तत्कल्पने
को विरोधः १ ततः स्थितम्-'नचैक्यम्तेन (नचैकान्तेन) स्वसंवित्ति[:] भ्रान्तेरभावश्च (वस्य) प्रसङ्गात्' इति ।
एतेन ब्रह्मवाद्यमितिनिस्तः (वाद्यपि निरस्तः) ब्रह्मणोऽप्येकान्तेन स्वसंवित्तिसंभधे कुत ए[ष] नगरा[रा]मादिविभ्रमः तेन तदवेदनात् ? स्वयं वेदने ब्रह्मणो वैक (फ)ल्यमिति । १५ यस्तु मन्यते-[अ] नेकक्षणस्थायि स[त् ] न क्षणिकं ज्ञानम् आत्मनि समवेतम् , तत्र
समवेताः सत्तावय (सत्तादयः) इति ; सोऽप्यनेन योस्टष्टो (नोत्सृष्टः") यतः अर्थग्रहणरूपवदनेकक्षणसम्बन्धिवं (त्व)स्यापि स्वत एव ग्रहणे कुतस्तत्र भ्रान्तिः ? यतस्तद्व्यवच्छेदार्थ शास्त्र
प्रणयनम्।
एतेन "तस्यात्मनि तत्र सत्तादीनां समवेतत्वं चिन्तितम् । २० किंच, सत्तादेस्ततो व्यतिरेके किं तस्य रूपं यस्त्वयं (यत् स्वयं) जानीयात् , तेनचा (वा) संबंध्ये (सम्बध्ये)त ? अर्थग्रहणमिति चेत् ; *"अर्थग्रहणं बुद्धिः" [न्यायभा० ३। २।४६] इति वचनात् तदपि ततो विभिन्नं कुतो न भवति सत्तावत्तत्रापि भेदप्रत्ययस्याः (यः 'अस्याः) बुद्धरिदमर्थग्रहणम्' ? 'अस्या इदम्' इति भावात् बुद्धिरेव तद्र पं यथा नीलमेव
नीलरूपं जातिरेव जातिरूपमिति चेत् ; [३९०क] उच्यते-अथ केयं बुद्धिरित्यर्थःग्रहमिति २५ (बुद्धिरिति ? अर्थग्रहणमिति) चेत् ; पुनः पुनसादेवा (नस्तदेवा)वर्त्तत इति चक्रकम् । अपि च,
समवायस्य तेनैव वेदने विभ्रमः कुतः । तत्र तीतुना (ता) भावे सम्बन्धित्वगतिः कुतः ॥ न च सत्तादिकं (दि) सम्बन्धशून्यं सम्बध्यते तया ।
स्वरूपं संविदक्षोपि (दन् कोऽपि) यतः कल्पनमर्हति ॥ (१) प्रकृतिभिन्नरूपेण । (२) प्रकृतिपुरुषयोर्भेदपरिज्ञानात् । (३) प्रकृतिपुरुषयोः । (४) ममेति स्वरूपसंवेदने । (५) स्वस्वरूपम् । (६) स्वज्ञानग्रहणं । (७) पुरुषस्य । (८) एकस्य । (९) परिणामित्वकल्पने । (१०) खण्डित इत्यर्थः । (११) ज्ञानस्य । (१२) ज्ञानात् । (१३) अर्थग्रहणमपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org