________________
सिद्धिविनिश्चयटीकायाम्
[ ७ शास्त्रसिद्धिः
बुभुक्षापीडितोऽपि बालकः उदनं (ओदनं) तदुपायं च जानन् तत्र प्रवर्त्तते । द्वितीयपक्षे आत्मदर्शी तदर्थं प्रवर्त्तते ; इत्याह-यदा [इत्यादि] । पुनरिति पक्षान्तरद्योतने, कुतश्चिद् अनुमानादिप्रमाणा [त्] प्रतिपद्येत पुरुषः । किम् ? इत्याह- आत्मतत्त्वं जीवस्वरूपम् । किं तत् ? इत्याह-चैतन्यम् ।
५
ननु तत् सर्वदा प्रतिपद्यते सर्वोऽपि इति स तदर्थं प्रवर्त्तेत इति चेत्; अत्राह - अनन्तज्ञान इत्यादि । चैतन्यविशेषणम् अन्यत् । तत्किम् ? इत्याह- उपेयम् । तथा यदि पुनः प्रतिपघेत, किम् ? इत्याहइ-कर्म । किंभूतम् ? हेयम् । केन ? इत्याह- तत्त्वज्ञान इत्यादि । यथा
तत्त्वे यं तथा प्रतिपादयिष्येते । पुनरपि किंभूतं तत् ? इत्याह- मिथ्येत्यादि । तत्प्रभवं तदात्मा चित्वा ( तदात्माऽनित्यत्वादिकं ) तदुपयुक्तमदिरादिवत् । तन्न कुतश्चिदिति । तत्कुतो १० जायते ? इत्याहह - निसर्गादितवा (निसर्गादित्यादि, तदा) तदुपाये निर्वाणोपाये भिचक्ष्येत (अभियुज्येत ) । क इव ? इत्याह - आत्मानमित्यादि । [ आत्मानं ] स्वं परं वा निर्व्याधितं कर्तुकाम इव, वैद्य इव इत्यर्थः । यथा आत्मानं पश्यन्नपि वैद्यः तत्त्वदर्शी स्वस्य परस्य ताधारी ( वा बाधारोग) हानार्थं तदुपाये वमानादौ (वमनादौ तदा ( द )धिकं सुखं मन्यमानः प्रवर्त्तते तथा प्रकृतोऽपि पुरुष इति, न्यषा ( नान्यथा) नापरेण प्रकारेण तत्राभियुज्येत १५ [३८८ख] | कुतः ? इत्याह - एकान्तपक्षे [नित्यैकान्तपक्षे] क्षणिकैकान्तपक्षे च स्वपरयोः श्रेयसो मुक्तः प्राप्तेरत्यन्तमसंभवात् ।
एतदपि कुतः ? इत्याह- चित्तेत्यादि ।
४९२
[ चित्तस्वपरसन्तान भेदाभेदाव्यवस्थितेः । मैत्र्यादिर्विशेषेण क्रियासङ्करशङ्किनाम् ॥२२॥
२०
स्वसंवेदनमेव लक्षणं चित्तस्य, अन्यथा सर्वचित्त चैत्तानामात्मसंवेदनं नोपपद्यते । न चैकान्तस्वसंवित्तिश्चित्तस्य भ्रान्तेरभावप्रसङ्गात् । यथादर्शनम् अनेकान्तात्मकत्वात्, यथाकूतं तत्त्वस्य स्वतः प्रतिपत्तेः । परतश्च न संभवत्येवाधिगतिः, ज्ञानान्तरस्य अतद्विषयत्वात् अनन्यवेद्यनियमात् अनेकान्तस्वरूपस्यापि ग्रहणाविरोधात् । तन्न स्वपरचित्तव्यवस्था । विषयाकारविवेकस्य स्वतोऽबोध्यस्य परत्वप्रसङ्गात् । परचित्तस्यापि २५ सहोपलम्भादिभिः स्वस्वभावापत्तेः । चित्तानां कुतः सन्ततिः कार्य स्वपर यस्मिन् सति ं खरविषाणवत् । न च ततो नैरन्तर्यम् । कार्य तथा चात्यन्तमसतः कार्यत्वं प्रतिषिद्ध ं वेदितव्यम् । कथं पुनः सतः कार्यत्वं कृतत्वात् कारणवदिति १ एकान्तानङ्गीकरणादनुकूलमाचरसि । यथैव तर्हि सत्कार्यं तथैव नोत्पत्तुमर्हति निष्पन्नत्वात्, यथा चासत् तथा च अत्यन्तमसंभवात् खपुष्पवत् इति । तच्चेदं कृतोत्तरम् । न क्वचिदेकान्त३० दर्शनं यदवलम्ब्य अनेकान्तसिद्धिः संशयादिना उपालभ्येत । तदपह्नवे व कस्य करणादयः १ स्वपरसन्तान भेदानुपलब्धौ सत्त्वभेदाभावात् । सत्यां च स्वपरसन्तान - (१) चैतन्यम् । (२) चैतन्य - कर्मणी । (३) 'यं' इति व्यर्थम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org