________________
७।२१] क्षणिकैकान्ते न निर्वाणम्
४९१ आत्मिा]त्मीयतत्त्वमजानन्नेव का दुःख[पीडितोऽपि] हिताहितप्राप्तिपरिहारयोः प्रवर्तेत मत्तवत ? यदा पुनः कुतश्चित् अनन्तज्ञानादिकं चैतन्यमात्मतत्त्वं तत्त्वज्ञानेन च तदुपेयं मिथ्यात्वादि कर्म हेयं प्रतिपद्यत तदा आत्मानं परं वा निर्व्याधितं कर्तुकाम इव निसर्गात् तदुपायेऽभियुज्येत नान्यथा । एकान्तपक्षे स्वपरश्रेयाप्राप्तेरत्यन्तमसंभवात् ।
चेतनः स्वयं(स्व)परज्ञोऽहम् । कुतः ? इत्यत्राह-मम ज्ञानं स्वरूपं यतः अन्यथा [३८७ख] घटादिवत्तदयोगात् ।
'ननु ज्ञानसम्बन्धाच्चेतनो न ज्ञानस्य तत्स्वरूपत्वादिति चेत् ; सम्बन्धे तस्य प्राकनार्थतन (प्राक्तनाचेतन)रूपपरित्यागे अनर्थकं तत्सम्बन्धकल्पनम् , तत्स्वरूपत एत (पत्यागत) एव चेतनोपपत्तेः । तदपरित्यागे न चेतन[:] स्यात् , तद्वाँस्तु भवेत् । नहि दण्डसम्बन्धाद् १० देवदत्तो दण्डो भवति । 'धनुः प्रविशति' इत्यादिवत् स्यादिति चेत् ; न; उपचारमात्रं दृढप्रत्ययवर्जितं भवैवं (भवेत्) । कथं च भिन्न (न)ज्ञानं [तस्य] ? सम्बन्ध (न्धा) सिद्धिः (द्धः) । तदुपचाराच्चेत् ; सोऽपि कुतः ? तत्सम्बन्धात् ; अन्योऽन्यसंश्रयः ।
किञ्च, ज्ञानस्यापि स्वग्रहणविक[ल]स्य कुतश्चेतनता, यतोस्योपि (यतोऽन्योऽपि) तत्सम्बन्धाच्चेतनः स्यात् । अर्थग्रहणादिति चेत् ; न ; स्वग्रहणाभावे तदयोगात् । स्वपरप्रकाशनं १५ वरमात्मन एव कल्पितं किमपरेण ज्ञानेन ? ततः स्थितम्-'मम ज्ञानं स्वरूपम्' इति । ___ सर्वस्य सर्वदर्शित्वं चेत् ; अत्राह-कर्मणा [३]त्यादि । कर्मणा। किम् (म्भू )तेन ? अरिणा तत्स्वरूपनाशकत्वाद् वैरिणा । तद्विकल्पं (तद्वैकल्यम् )तस्य ज्ञानस्वरूपस्याऽसम्पूर्णत्वम् नियतप्रकाशनरूपमिति हेतोः कैवल्यार्थ केवलस्य कर्मविकलस्य आत्मनो भावः कैवल्यं तदर्थम् । उपायतः सम्यग्दर्शनादिकमुपादाय (मुपाय)माश्रित्य ईहेत यतेत । २० को हि नाम ज्ञानवान् आत्मनो वैरिणं सोपायविलयं वीक्ष्य (क्ष)माणोऽपि उपेक्षते तत्कृतागन्तुकसुखलेशपाशवशात् ।
कारिकां व्याख्यातुमाह-आत्मेत्यादि । अत्रायमभिप्राय:-अतत्त्वज्ञो वाऽऽत्मदर्शी तदर्थ न प्रवर्तेत, तत्त्वज्ञो वा ? त[त्र] प्रथमपक्षे सिद्धसाधनमित्याह-कोनत्रवे (कोजानन्नेव) प्रवर्तेत ? किम् ? इत्याह-आत्मीयतत्त्वम् [३८८ क] अनन्तज्ञानादिकं यावद्व्यभावि- २५ त्वादिति निरूपयिष्यते, न शरीरादिकं तत्प्रभवं वा सुखादिकं विपर्ययात् परतन्त्रत्वाच" । के (क्वे)त्याह-हितेत्यादि । हितं निर्वाणं तत्साधनं च अहितः संसारः तद्धेतुश्च तयोर्याथासङ्ख्येन प्राप्तिश्च परिहारश्च तयोरिति । क इव ? इत्याह-मत्तेत्यादि।
ननु दुःखानुभवे तदजानन्नपि तत्र प्रवर्तत इति चेत् ; अत्राह-दुःखेत्यादि । नहि
(१) नैयायिकः प्राह । (२) आत्मस्वरूपस्वात् । (३) ज्ञानसमवाये । (४) अचेतनस्वरूपापरित्यागे । (५) उपचारात् । (६) चेत् ; । (७) अर्थग्रहणायोगात् । (८) तथा सति । (९) आत्मीयं तस्वम् । (१०) याचदात्मद्रव्यं तावत् शरीरादिकं न भवति । (११) इन्द्रियाद्याश्रितत्वात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org