________________
७।२० ] क्षणिकैकान्ते न निर्वाणम्
४८९ तंदभावात् सदानवस्थायित्वमिति; तदयुक्तम् ; अचेतनवत्तदभावेऽपि स्वहेतोरेव प्रबन्धाऽनिवृत्तेः । तत[:] स्थितम्-'परस्परप्रत्ययात्मकत्वात्' इति ।।
__ स्यादेतत् चरमचित्तस्योभयशक्ति योगेऽपि परत्र बहुलं तथा दर्शनात्तदनुरूपं या[वद]दृष्टकल्पनं युक्तम्, अन्यथा ज्ञानमनवयवेन स्वावभासि कथं सिध्येत् ? बाध]कमन्यत्रापि दर्शितम् 'रसाद् रूपप्रतिपत्तिर्न स्यात्' इति । विजातीयवत् सजातीयं कार्यं स्वयमेव न जायत ५ इति कथमुच्यते-'स्वहेतुफलप्रवृत्तिरेव द्रव्यसन्ता[ना]नाम्' इति ? तत्राह-कथमन्यथा इत्यादि । तत्प्रभवे (भवा) कारेणान्यथा यस्मिन् कारणाभिमते सत्येव नासति यद्भावो यस्य कार्याभिमतस्य भावः उत्पाद एव इत्यवधारणीयम् विकारे च यस्य विकृतौ च विकारो 'यद्विकार' इति द्रष्टव्यम् , इदम् उपादेयस्य, पूर्व कार्यमात्रस्य लक्षणम्] तत्तस्य कार्य तथेतरत कारणम् इति च द्रष्टव्यम् इत्येवं लक्षण[f] कार्यकारणयोः कथं न कथञ्चिद् व्यवतिष्ठेत ? १० यथैव हि [३८६ख चरमचित्ताभिमते समर्थेऽपि स्वयमेव न भवति', तथा अस्मिन् सत्यपि स्वयमेव भविष्यति, यथा “सभागमकुर्वतोऽपि विसभागकरणम् तथा विसभागमकुर्वतोऽपि अन्यकरणमिति न सामग्रीजन्यता कार्यस्य, कदाचिदुभयं वा स्वयमेव न भविष्यति, इति कार्यमकुर्वतोऽपि चरमस्य सत्त्वे नित्यस्यापि तमिति (तदिति) भावः ।
__ यदि मतम्-उपादानेन सहकारिकारणस्ते (णस्य तेन वोपा)दानस्यातिशयापादनं न सह- १५ कारित्वम् अपि तु सर्वेषाम् एकत्र कार्ये व्यापारः, स चरमस्यापि न विरुध्यते इति ; तत्राहनचेत्यादि । नचापरम् उक्तादन्यत् अन्योऽन्यप्रत्ययलक्षणं किन्तु एतदेव । न हि सदा स्वं नित्यस्य समर्थस्य परापेक्षा इत्युक्तम् । एतेन अन्त्यशब्दस्य ककालीयानारंभे (सजातीयानारम्भे) सत्त्वं निरंशंसन्ना (निरंशसत्ता)सम्बन्धोऽपि चिन्तितः।
ननु मा भूत् चित्तसन्ताननिवृत्तिनिर्वाणम् , आस्रववि(नि)रोधो निरास्रवचित्तोत्पत्तिः २० तत् स्यात् ; एतदेव दर्शयति दूषयितुं यदि इत्यादिना । यदि पुनः विभ्रमविवेकनिर्मलमन
प्राप्तिर्निर्वाणम् । किं कुर्वताम् ? इत्याह-चिन्तामयीमेव” अनित्यत्वाद्यनुमानरूपामेव नान्यां प्रज्ञां बुद्धिम् अनुशीलयताम् अभ्यस्यताम् इति । तत्र दूषणमाह-तच्चेत्यादि। तदपि निर्वाणं न संभवति इत्युक्तम् । कथम् ? अतत्त्वभावनेत्यादिना। कस्मिन् सति तन्न संभवति ? इत्याह
(७) महाकरुणाऽभावात् । (२) दीपादौ । (३) “सत्येव यस्मिन् यजन्म विकारे चापि विक्रिया। तत्तस्य कारणं प्राहुः..."-प्र० वा० १।१८२ । (४) कार्यम् । (५) सजातीयम् । (६) विजातीय । (७) सत्त्वमिति । (८) 'स्व' इति निरर्थकम् । (९) निर्वाणम् । (१०) "कार्यकारणभूताश्च तत्राविद्यादयो मताः । बन्धस्तद्विगमादिष्टो मुक्तिर्निर्मलता धियः॥ यथोक्तम्-चित्तमेव हि संसारो रागादिक्लेशवासितम् । तदेव तैर्विनिर्मक्तं भवान्त इति कथ्यते ॥"-तत्वसं०प० पृ० १८४। (११) वृत्तस्थः श्रतचिन्तावान् भावनायां प्रयुज्यते । धियः श्रुतादिप्रभवा नामोभयार्यगोचराः ॥ ५॥ श्रुतादिभ्यः प्रज्ञा प्रभवति (जायते) तत्र श्रुतमयी प्रज्ञा नामार्थम् , चिन्तामयी उभयस्य नाम्नोऽर्थस्य च कृते । भावनामयी प्रज्ञा केवलमर्थस्य कृत इति वैभापिकाः । सौत्रान्तिकाः (वसुवन्धुः) श्रुतमयी प्रज्ञा हि आप्तप्रमाणजो निश्चयः, चिन्तामयी प्रज्ञा युक्तिनिध्यान (युक्त्या नितीरण)जो निश्चयः, समाधिजो निश्चयः भावनामयी प्रज्ञा ।"-अभिध० को० टी० पृ० १६१ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org