________________
४८८ सिद्धिविनिश्चयटीकायाम्
[७ शास्त्रसिद्धिः तत्स्वत एव सिद्धम् । सन्तानक्षयार्थं तपस्तप्यत इत्येवं चेत् ; अत्राह-[सन्ता] नेत्यादि । असंस्कृतत्वात् सेन्तानिभ्यो भिन्नस्याभिन्नस्य वा सन्तानत्व स्या (नस्याऽ)सत्त्वात् , ततः तत्क्षयार्थो यत्नः किंशुकरागवद्विफल एव इति भावः । इतश्च न तत्क्षयार्थो यत्न इति [३८५ख] दर्शयन्नाह-चरमेत्यादि । यस्य न कदाचिदपरं सजातीयं चित्तं भविष्यति तच्चरमचित्तं [त] स्या५ किञ्चित्करत्वेनानर्थक्रियाकारित्वेन अवस्तुत्वे सति तद्धेतुपरम्पराया अपि तथा तेन अवस्तुत्वप्रकारेण अभावाव (न) सन्तानक्षयार्थं तपस्तप्यत इति । ततो विजाती(य) योगिज्ञाना(न)भावाददोष इति चेत् ; अत्राह-स्वेत्यादि । स्व वत (स्वं च तत्) हेतुफलं च स्वोपादानोपादेय इत्यर्थः, ताभ्यां प्रवृत्तिः। केषाम् ? इत्याह-द्रव्यसन्तानानां गुणपर्यायवन्ति
द्रव्याणि, तत्सन्तानानां द्रव्याणां च तत्प्रवृत्ति रेव लक्षणं तथैव दर्शनात् । न च यस्य यल्लक्षणं १० तत्तदभावे भवति, स्ववेदनाभावे ज्ञानवत् । ततो यथा ज्ञानात् तत्संवेदनसिद्धिः तथा द्रव्यात्
तत्प्रवृत्तिसिद्धिः इत्यस्य पुनदर्शनार्थं द्रव्यग्रहणम् । इतश्च तत्प्रवृत्तिरेव तेषाम् , इत्याह-परस्परेत्यादि । परस्परमन्योन्यं प्रत्ययः कारणं भावप्रधानोऽयं निर्देशः, स एव आत्मा स्वभावो येषां तेषां भावात् तत्त्वात् तेषां प्रवृत्तिरेव । एवं मन्यते-यथा योगिनोऽन्यस्य वा अचरमचित्तं सह
कारिकारणम् अन्यथा विषयत्वायोगात् , तथा सच्चि (स्वचि)त्तस्यापि योग्यन्यो वा, अन्यथा १५ रूपस्य रसं प्रति सहकारित्वेऽपि न रसस्य तत्प्रति तद् इति *"एकसास्तामप्य (सामग्रय)
धीनस्य" [प्र० वा० ३।८] इत्यादि प्लवते । तथा सति उपादानसहकारिप्रत्ययसानिध्य (सान्निध्ये) विजातीयवद् अन्यदवि(पि) कार्य (य) केन वार्यते ?
एतेन वम (चरम)स्योपादानशक्तिवैकल्यं निरस्तम् , अन्यत्रापि प्रसङ्गात् । अथापि स्यात् [३८६क] सजातीयानुसत्त्वा (नुबन्धात्) तस्य तृष्णापि कारणम् इति "तदनु[बन्धा]२० भावादननुसन्तानं' [नः] । तदुक्तम्
*"दुःखे विपर्यासमतिः तृष्णा वा बन्धकारिणम् (कारणम् )।
प्राणिनो यस्य ते न स्तो न स जन्माधिगच्छति ॥" [प्र० वा० १।८३] इति चेत् ; न; तत्कार्यस्य हीनस्थानानु सत्त्वा (नानुबन्धसन्ता)नस्य तदभावेऽभावात् न चित्तमात्रस्यस्यातत्कायत्वा हि (त्रस्यातत्कार्यत्वात् वितृष्णेऽपि ध्यानिनि भावात् ।।
अथ मतम्-शुद्धाशयानां बहाव (महाक)रुणावशात् सदवस्था न (सदावस्थानम्) तदुक्तम्*"तिष्ठन्त्येव पराधीना येषां तु महतो कृपा।" [प्र० वा० १।२०१] सन्तानोच्छेदवतां तु
(5) उत्पादादित्रयरहितत्वात् असत्वादित्यर्थः । “उक्तं हि भगवता त्रीणीमानि भिक्षवः संस्कृतस्' संस्कृतलक्षणानि । संस्कृतस्य भिक्षव उत्पादोऽपि प्रज्ञायते व्ययोऽपि स्थित्यन्यथात्वमपि इति । न चाविद्यमानस्य, खरविषाणस्येव जात्यादिलक्षणमस्ति ।"-माध्य. वृ० पृ० १४५। (२) क्षणेभ्यः । (३) सन्तानक्षयार्थः । (४) युक्तम् । (५) हेतुफलभावप्रवृत्तिरेव । (६) कारणम् । (७) उत्तररसं प्रति । (८) उपादा नकारणत्वम् । (९) 'रूपादे रसतो गतिः। हेतुधर्मानुमानेन धूमेन्धनविकारवत्' इति शेषः । (१०) तृष्णानुबन्धाभावात् । (११) न अनुसन्तानः अननुसन्तानः, पश्चात् सन्तानाभाव इत्यर्थः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org