________________
७।२० ]
ब्रह्मस्वरूपनिरूपणम् कुतः ? इत्याह-मलेत्यादि । कस्य वा ? इत्याह-मणीत्यादि । तदनभ्युपगमे दूषणभावान्यथे (दूषणमाह-अन्यथा इ)त्यादि । निर्वाणस्यास्याभावप्रकारेण अन्यथा मोक्षार्थिनां व्यर्थः प्रयासः। सभावस्य (अभावस्य) नाशयितुमशक्तेः प्रयोजनाभावाञ्च इति भावः । एवं जीवस्य आत्मलाभलक्षणो (णे) मोक्षे सति यज्जातं [३८५क] परस्य तदर्शयन्नाह-तथा सतीत्यादि । तथा तेन प्रकारेण सति जीवस्य आत्मलाभलक्षणे मोक्षे नेश्वरो बुद्धिमान् अशेषविशेषगुणवैकल्यरूपस्य ५ मोक्षस्या नभि(स्याभि)धानात् , न करण (कण)भक्षादिः बुद्धिमान् तदर्थ तद्वचनात् प्रवृत्तेः । एतदेव दर्शयन्नाह-परस्परेत्यादि । स्वात्मन्यवस्थानम् आत्मनोऽशेषगुणवैकल्येन, तस्मिन् सति तदभावापत्तेः विरुद्धं तदपि तस्य तत्रावस्थानेनं, तस्याभिधानात् । निदर्शनमाहबुद्धेन तुल्यं वर्त्तते इति बुद्धवत् । बुद्धस्याऽबुद्धिमत्त्वं दर्शयन्नाह-तत्त्वमित्यादि ।
[तत्त्वं शून्यं पदार्थानां येषां ते निरात्मनः ।
निर्वाणं किं विशिष्येत तदर्थञ्च तपश्चरेत् ॥२०॥ पञ्च[स्कन्ध]अपुनर्भवलक्षणं निर्वाणं स्वरसतः सिद्धं यदर्थ तपस्तपेत् । सन्तानस्य असंस्कृतत्वादसत्त्वात् । चरमचित्तस्य अकिञ्चित्करत्वेन अवस्तुत्वे तद्धेतुपरम्पराया अपि तथाऽभावात् । द्रव्यसन्तानानां स्वहेतुफलप्रवृत्तिरेव लक्षणं परस्परप्रत्ययात्मकत्वात् । १५ कथमन्यथा 'यस्मिन् सत्येव यद्भाव एव विकारे च विकारः तत् कार्यमितरत् कारणम्' इति लक्षणं व्यवतिष्ठेत ? न चापरमन्योऽन्यप्रत्यक्षलक्षणम् । यदि पुनश्चिन्तामयीमेव प्रज्ञामनुशीलयतां विभ्रमविवेकनिर्मलमनःप्राप्तिः निर्वाणम् ; तदपि मिथ्याभावनायां न संभवति [कामशोकभयोन्मादादिवत् ] नैरात्म्यम्]
ते तव । कस्य ते ? इत्याह-निरात्मनः सौत्रान्तिकादिमनवतो ("मतवतः) बुद्धस्य २० इत्यर्थः । ये पदार्थाः रूपादयः पञ्चस्कन्धः (न्धाः), बहिरर्थशून्याः विज्ञानसन्तानाः, सकलशून्यता वेति तेषां तत्त्वं स्वरूपं शून्यं निःस्वभावं निरूपितविधिना तत्तत्त्वस्य घटनायोगात् । तथा सति [किम् ? इ] त्याह-संसार (रात् ) किम्विष्येत (किं विशिष्येत) निर्वाणं तेनैव भिमतरयोः (अभिमतेतरयोः) अविशेष इति यावत् । दूषणान्तरमाह-तदर्थम् । किम् ? तपः चरेत्ते" जनः । च शब्दो दूषणसमुच्चये ।
[कारि]कार्थं दर्शयन्नाह-पञ्चेत्यादि । निर्वाणं सिद्धम् । किं रूपमपि (पम् ? इ) त्याह-[अ]पुनर्भवलक्षणम् । कुतः ? इत्याह-स्वरस्व(स)तः। कारणमन्तरेण कस्यचिदभावे पुनर्भवाभावादिति भावः । यदर्थ(थ) यस्य निर्वाणस्य निमित्त (त) यस्तस्येत (तपस्तपेत्)
(१) वा इवार्थे । (२) कणाद-अक्षपादादयः । (३) मोक्षार्थम् । (४) ईश्वरवचनात् । (५) अशेषगुणवैकल्ये सति । (६) स्वात्मन्यवस्थानस्य अभावः स्यात् । (७) अशेषगुणवैकल्यम् । (6) स्वात्मन्यवस्थानेन। (९) विरुद्धमिति । (१०) मतवादिनः। (११) ते तव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org