________________
४८६
सिद्धिविनिश्चयटीकायाम् [७ शास्त्रसिद्धिः न वै निर्वाणम् अभवितुः निरात्मकम्' अशेषगुणवैकल्यं सात्मकं दृश्य[दर्शनरहितम्] शिष्मः द्रव्यान्तरवत् । किं तर्हि ? मल[क्षयात्] जीवस्य आत्मलाभं मणिवत् । अन्यथा व्यर्थः प्रयासः । तथा सति नेश्वरो बुद्धिमान् अशेषगुणवैकल्यरूपमोक्षाभिधानात् , न कणभक्षादिः तदर्थं तद्वचनात् प्रवृत्तेः , परस्परविरुद्धाभिधानात् बुद्धवत् ।। ५ जीवस्य आत्मलाभम् अ[न]न्तज्ञानादिस्वभावलाभं विदुर्मोक्षं । तंलाभः
(तल्लाभः) कुतः? इत्याह-अन्तर्मलक्षयात् जीवस्य स्वभावाऽन्यथाभावोऽन्तर्मलम् [३८४ख तस्य क्षयात् । अनेन सामर्थ्याद् द्र्व्यमलक्षयोऽप्युक्तः, तेदभावे तदभावात् । नाभावं जीवस्य मोक्षं विदुः अस्याऽप्रमाणत्वात् । नापि तस्याचैतन्यं चेतनारहितत्वम् । किं विदुः ?
[मोक्षं] अत एव न चैतन्यमनर्थकं ग्राह्यशून्यं तस्य तं विदुः। स्वपरप्रकाशनलक्षणस्य १० प्रतिबन्धाभावे नितरां लक्षणाभिव्यक्तिः न पुनरभावः । नहि भानुः जलदपटलविलये स्वपरप्रकाशनरूपं विजहाति ।
[कारि]कां विवृण्वन्नाह-नवै नैव निर्वाणं शिष्यः(शिष्मः)। किम्भूतम् सविते (तस्य ? अभवितु)रनुत्पत्तिमात्रस्य । वैशेषिकनिर्वाणाद् विशेषमाह-निरात्मकम् । तथा न चैव निर्वाणं शिष्यः (शिष्मः)। किम्भूतम् ? अशेषविशेषगुणवैकल्यम् बुद्ध्यादितत्त्वम् । सौगतादस्य १५ विशेषमाह-सात्मकमिति । कस्येव तद्वैकल्यं नवै ? इत्याह-द्रव्यान्तरवदिति । जीवा (व)
द्रव्यादन्यद् द्रव्यं पृथिव्यादि तदन्तरम् तस्येव तद्वत् । यथा निःस्वभावताभयात् न पृथिव्यादेरशेषगुणवैकल्यं तथा जीवस्यापि। अनेन "परस्य तद्वैकल्य (ल्ये) दृष्टान्ताभावमाह । तथा नवै निर्वाण(णं) शिष्मः । कथम्भूतम् ? इत्याह-दृश्येत्यादि । किंभूतं तर्हि तद्भवन्तः कथयन्ति ? इत्याह-किं तर्हि इत्यादि। किं तर्हि किन्तु जीवस्य ज्ञस्वभावस्य आत्मलाभं निर्वाणं "शिष्मः।
(१) तुलना-"तस्मादनादिसन्तानतुल्यजातीयबीजिकाम् । उत्खातमूलां कुरुत सत्त्वदृष्टिं मुमुक्षवः॥" -प्रमाणवा० २।२५६ । “तत्र निरवशेषस्याविद्यारागादिकस्य क्लेशगणस्य प्रहाणात् सोपधिशेष निर्वाणमिष्यते । तत्रोपधीयते अस्मिन्नात्मस्नेह इत्युपधिः । उपधिशब्देन आत्मप्रज्ञप्तिनिमित्ताः पञ्चोपादानस्कन्धा उच्यन्ते । शिष्यते इति शेषः । सह उपधिशेषेण वर्तते इति सोपधिशेष । किं तन्निर्वाणम् ? तच्च स्कन्धमात्रकमेव केवलं सत्कायदृष्ट्यादिक्लेशतस्कररहितमवशिष्यते निहताशेषचौरगणग्राममात्रावस्थानसाधर्येण । तत्सोपधिशेष निर्वाणम् । यत्र तु निर्वाणे स्कन्धमात्रमपि नास्ति तन्निरुपधिशेषं निर्वाणम् । निर्गत उपधिशेषोऽस्मिन्निति कृत्वा, निहताशेषचौरगण
स्मिन्निति कृत्वा, निहताशेषचौरगणस्य ग्राममात्रस्यापि विनाशसाधम्र्येण । तदेव चाधिकृत्योच्यते... असंलीनेन कायेन वेदनामध्यवासयत् । प्रद्योतस्येव निर्वाणं विमोक्षस्तस्य चेतसः॥"-माध्य० वृ० पृ. ५१९-२० । (२) “नवानामात्मगुणानामत्यन्तोच्छित्तिर्मोक्षः।"-प्रश० व्यो० पृ०६३८ । “यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । तावदात्यन्तिकी दुःखव्यावृत्ति वकल्प्यते ॥ ननु तस्यामवस्थायां कीदृगात्मावशिष्यते । स्वरूपैकप्रतिष्ठानः परित्यक्तोऽखिलैर्गुणैः ।"-न्यायम० पृ. ५०८ । प्रश० कन्द० पृ० २८७ । प्रश० किर० पृ० ६ । (३) तुलना-"तस्मात्तत्संयोगाद् दृश्यस्योपलब्धिर्या स भोगः, या तु द्रष्टुः स्वरूपो. पलब्धिः सोऽपवर्गः।"-योगभा० २।२३ । (४) द्रव्यकर्माभावः। (५) अन्तर्मलरूपभावकर्माभावे । (६) जीवस्य । (७) जीवस्य । (८) मोक्षम् । (९) ब्रूमः। (१०) वैशेषिकस्य । (11) "शिवमजरमरुजमक्षयमव्याबाधं विशोकभयशङ्कम् । काष्ठागतसुखविद्याविभवं विमलं भजन्ति दर्शनपूताः ॥"-रत्नक० श्लो० ४०। सर्वार्थसि० पृ०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org