________________
७१९ ] मोक्षस्वरूपनिरूपणम्
४८५ च [?] आत्मानोऽपि तदेव कुर्यात् । अथ कर्मणः सहकारिणः परत्र भावात्तत्रैव तत्कुर्या [त् ] नात्मनि विपर्ययात् ; कर्मापि इष्टतया आत्मनि विधातव्यम् , अन्यथा नान्यत्रापि । तस्य तदा [तद] हेतुत्वे कथमव्यभिचारो हेतूनाम् ? अथ[वा] शास्त्र (स्त्र) विहन्यत (ते) प्रमाणेन इति व्याख्यातव्यम् । अत्र 'कः प्रेक्षावान्' इत्यादि वृत्तिर्भविष्यति ।
___ कारिकां व्याख्यातुमाह-मूत्र का र इत्यादि । सूत्र का रः अक्ष पा दा दिः परं ५ पुरुषार्थमाह। किम् ? निःश्रेयसाधिगम निःशेषवैशेषिकगुणप्रहाररूपनिर्वाणप्राप्तिम् । कुतः ? इत्याह-आत्मादेः तत्त्वज्ञानात् , नेश्वरात् ; अन्यथा तद्वैफल्यम् । ईश्वरा (गे) यावत तत्त्वज्ञानोत्पादनात्याया (नाया)त्मानं क्लेशयति तावन्मोक्षमेव विदधातु इत्येतदनेन दर्शयति । स एव सूत्र का रः संसारं मुक्तः परं प्रकृष्टं सूचयति । कुतः ? इत्याह-देहादिरीश्वरहेतुः 'इति' शब्दोऽत्र द्रष्टव्यः । इत्येवमाह यतः। निगमयन्नाह-तदित्यादि । यत एवं तत्तस्मात् [३८४क] १० अनयोः सू त्र का र वचसोः परस्परविरोधात् बुद्धिमत्त्वं कथं कल्प्येत सूत्र का र स्य इति । यदि वा, सूत्रकारो महेश्वरः सर्वस्य तत्पूर्वकत्वात् अपरं पूर्ववत् । अयं तु विशेषः बुद्धिमत्त्वं कथं कल्प्येत 'ईश्वरस्य' इति । अथवा, अक्ष पा दा त्यिप्रेप (अ क्ष पा दो निःश्रेय)साधिग[म]माह, देहादिः सूचयतीति वाक्यभेदेन व्याख्यातव्यम् । 'देहादिहेतुरीश्वरः' इति च पाठोऽस्ति । तत्राप्येवं वाक्यभेदः तदनयोः ईश्वरकारयोः सूत्रकारये (ईश्वरसूत्रका- १५ रयोः) बुद्धिमत्त्वं कथं कल्प्येत १ परस्य ईश्वरबुद्धिमत्त्वसाधकं कः' इत्याद्याशङ्कते दूषयितुम्का प्रेक्षावान् अतीन्द्रियार्थदर्शी अपवर्गम् उपलक्षणमेतत् अशेषाऽऽत्मादितत्त्वस्य । किंभूतम् ? अचैतन्यं चेतनारहितत्वं प्रतीयते, त (यतः) तद्विषयं शास्त्रं कुर्यात् न कश्चित् ? सुगतादेरसम्बंधा(रसम्बद्धा) भिधायित्वात् क ण च रा दे श्च तंदुपदेशादेह (देव) समीहितसिद्धः यतोऽ न्यस्य तंप्रतिपन्ना (तत्प्रतिपत्तौ) नेश्वरो बुद्धिमान् । यत इति वाऽऽक्षेपे यतो न बुद्धिमान् ? २० तद्वानेव । अत्र दूषणमाह-नेत्यादि । यदुक्तं तन्न । कुतः ? उक्तप्रकारादन्यस्य मुक्तिप्रकारस्य संभवावेवमन्यन्ते (संभवात् । एवं मन्यते) यथा ईश्वरस्य अनन्तज्ञानस्वभावस्य सतः तद्विवनुक (तद्विघातक) कर्मापाये यदा सर्वज्ञत्वं न कदाचिदा (द) चैतन्यं तथाऽन्यस्यापि । विशेषः पुनरयमेव भवन्स्यापगमेन (मलस्यापगमेन) कस्यचित् स्वाभाविकस्तदपायोऽन्यस्योपायात् , २५ ततोऽन्या(न्यो) विमुक्तिं प्रति यतत इति । एतदेव दर्शयन्नाह-आत्मलाभमित्यादि ।
["आत्मलाभं विदुर्मोक्षं जीवस्यान्तर्मलक्षयात् ।
नाभावं नाप्यचैतन्यं नचैतन्यमनर्थकम् ॥१९॥ (१) अन्यप्राणिषु । (२) कर्मणः । (३) ईश्वराहेतुकत्वे । (४) कार्यत्वादीनाम् । (५) बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा विशेषगुणाः। (६) तत्वज्ञानं व्यर्थं स्यात् । (७) महेश्वरपूर्वकत्वात् । (८) व्याख्येयम् । (९) ईश्वरोपदेशादेव । (१०) तुलना-"न हि गुणादिविनाशात् जडः, गुणगुणिविनाशात् शून्यः, भोग्यविरहात् तदभोक्ता"-लघी० स्ववृ० श्लो०७६ । “स्वरूपावस्थितिः पुंसस्तदा प्रक्षीणकर्मणः । नाभावो नाप्यचैतन्यं न चैतन्यमनर्थकम् ॥"-तत्त्वानु० श्लो. २३४ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org