________________
४८४
सिद्धिविनिश्चयटीकायाम् [७ शास्त्रसिद्धिः बुद्धिमत्त्वं कथं कल्प्येत ? कः प्रेक्षावानपवर्गमचैतन्यं प्रतीयते तद्विषयं शास्त्रं कुर्यात् यतो नेश्वरो बुद्धिमान् ? तन्न, अन्यस्याऽसंभवात् ।]
देह आदिर्यस्य सकलकार्यग्रामस्य स तथोक्तः तस्य ईश्वरो नित्यो व्यापी यदि हैं (हेतुः) शास्त्रे (स्त्र) क ण च रा देवचन स (नं तदेव)वा विहन्यते बाध्यते । किं ५ कुर्वन् ? इत्याह-वदन् कथयन् । किम् ? इत्याह-मोक्षात्कथं (मोक्षात्मकम् ) मोक्षमित्यर्थः । कुतः ? इत्याहा (ह-) संसार [सुख]संवित्तिक्षयात् , संसारो जन्ममरणादिप्रबन्धः सुखग्रहणमुपलक्षणं दुःखादेः, संवित्ति[:]बुद्धिः दुःखादिवित्सं चेतैरपि [३८३क] ग्रहणे (दुःखादिवत् संवित्तरपि तेनैव ग्रहणे) प्राप्ते तदुपादानं पृथक् मोक्षस्यास्याऽ
युक्ततां प्रतिपादयितुम् , तासां क्षयात् । एतदुक्तं भवति-यदा सर्वोत्पत्तिमताम् एकस्व१० भावो नित्यो व्यापीश्वरः कारणम् ; तदा सर्वं सर्वदा सर्वेषामविशेषेण देहादय इति न तत्क्षयात् मोक्षः । तदुक्तं न्या य वि निश्च ये
*"कारणस्याक्षये तेषां कार्यस्योपरतिः कथम् ।" [न्यायवि० १।१०३] इति ।
भव (न च) नित्यस्या (स्व)भावे या (अन्या)ऽतिशयस्य काचिदपेक्षा इत्युक्तम् । तनु तत्कृय (ननु तत्क्षय)स्यापि स एव कारणं तत्कथं तदनुपपत्तिरिति चेत् ; संसारनिर्वाणपुर१५ प्रवेशः । ततो मोक्षमिच्छता प्रकृत्यादिवद् ईश्वरोऽपि तत्कारणं नाभ्युपगन्तव्य इति ।
यदि चैवं (वा, एवं) व्याख्यायते-देहादी(देरी)श्वरो हेतुः यदि । किं कुर्वन् ? वदन् ? किम् ? शास्त्रम् । किं भूतम् ? इत्याह-मोक्षाह (त्म)कं मोक्षस्य [स] निधानं यस्मिन्निति । कुतः ? इत्याह-संसारेत्यादि । तर्हि विहन्यते परस्परविरोधेन खरो
(ईश्वरो) निराक्रियते । तथाहि-सर्वदा आत्मनो देहादिकर्तृत्वं प्रतिपद्यमान एव संसारोदिक्षो २० (संसारादिक्ष) यान् मोक्षह्वकं (क्षात्मक) शास्त्रं वदन् तदभावं वदतीत्येष विरोधः । अथ तच्छास्त्रं तत्प्रणीतं [न] भवत्यन्यतो भावात् ; न सर्वमीश्वरकृतम् , तेनँ व्यभिचारात् ।
__ अथवा, यदुक्तम् 'कर्मपरवशः किं बुद्धिमानवेनम (नचेतनम) तिशेते संसारिणं वाssत्मानम्' इति ? तत्त्व (तत्र) परकीयं तद्बुद्धिमत्त्वसाधनमाशङ्कय दूषयन्नाह-संसारेत्यादि ।
देहादेरीश्वरो हेतुः यदि 'प्रतीयेत' [इ]त्यध्याहारः। किं कृत्वा [३८३ख] तद्धतुरसौ? २५ इत्याह-संसारसुखसंवित्तिक्षयात् तत्क्षयमाश्रित्य शुद्धसुखसंवित्ती[:] समाश्रित्य इति
यादेव (यावत् । एव)मर्थं च संसारग्रहणम् , इतरथा सुखसंवित्तिग्रहणमेव कुर्यात् । किं कुर्वन् समाश्रित्य तद्धेतुः प्रतीयते ? इत्याह-वदन् मोक्षात्मकं शास्त्रम् , मोक्षग्रहणं तदुपज्ञाशेषतत्त्वोपलक्षणार्थम् । अत्र दूषणम् विहन्यते ईश्वर इति । तद्यथा-यदि शुद्धं सुखं संवेदनं चेश्चेष्टं (चेश्वरस्येष्टम् ,) तदेव परेषामपि विधातव्यम् , न शरीरादि । यदि पुनः न शरीरा ये
(१) पृथक्सवित्तिपदस्य ग्रहणम् । (२) संसारसुखसंवित्तीनाम् । (३) 'कार्यस्योपरमः कथम्'न्यायवि०। (४) ईश्वर एव । (५) संसारावस्थायामेव मोक्षः स्यादित्यर्थः समर्थकारणसद्भावात् । (६) ग्रन्थकारादेः । (७) अन्यकृतशास्त्रेण ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org