________________
७.१८ ]
ईश्वरकारणतानिरासः चे (नन्वे) तस्य परिणामित्वे कार्यत्वेन अन्येश्वरपूर्वकत्वम् अनवस्थाकारि, अन्यथा अनैकान्तिको हेतुः इति चेत् ; अयमेव तर्हि दोषोऽस्तु किमपरेण इति चेत् ; न ; अन्यथा व्याख्यानात् । एवकारो निपातत्वाद् अपिशब्दार्थः, ततः 'अन्यथाप्युप च (प्युपपद्य)रंस्ततो नेश्वरहेतवः' इत्यर्थः । 'नैव तनुकरण' इत्यादि वृत्तिर्भविष्यति । यदि वा, य एवं वदति 'नित्योऽशरीरो महेश्वरः शरीरादिकारणम्' इति; तदपेक्षया एवकारो[ऽव]धारणे, ५ अन्यथैव न भाव एवोपपद्यरन् ततो न ईश्वरहेतवो विरुद्धत्वात् । एवमन) (एवमर्थ) चेश्वरग्रहणम्, इतरथा बुद्धिमद्ग्रहणं कुर्यात् । अत्र वृत्तिः स्वारम्भक इत्यादि ।
__ कारिकां विवृण्वन्नाह-तनुकरणेत्यादि । स्थित्वा प्रवृत्तिः अर्थक्रियाकारित्वं वा [न] हेतुः । कुतः ? व्यभिचारात् । अयमपि कुतः ? इत्याह-नित्येषु इत्यादि । स्वयम् आत्मना ईश्वरवादिनाऽभिमतत्वात ] स्थित्वाप्रवृत्तः अर्थक्रियाकारित्वस्य च । नित्यग्रहणेन १० तत्रायम् बुद्धिमत्कारणाभावं दर्शयति, आत्मग्रहणेन स्वकार्येऽन (ऽन्य)चेतनाधिष्ठितत्वाभावम् , अन्यथा अनवस्था स्यात् । स्वारम्भकावयवसन्निवेशनिमित्तत्वं स्यात् 'हेतुः' इत्यनुवर्तते । कस्य ? इत्याह- मतनु (सतनु)करणस्य । कस्येव ? इत्याह-घटादेरिव । अनेन इष्टसाध्यविपर्ययसाधनाद् विरुद्धमुक्तम् । एतेन कार्यत्वादिकं चिन्तितम् ।।
___ यस्तर्हि सशरीरमनित्यज्ञानम् ईश्वरं कारणमिच्छति तस्य कथं दोषः ? इत्याह-परेषाम् १५ इत्यादि । परेषाम् [३८२ख] जैनैः इष्टमेव । किम् ? इत्याह-बुद्धिमत्कारणपूर्वतामात्रं 'तनुकरणभुवनादीनाम्' इति सम्बन्धः । च शब्दः पूर्वसर्वदूषणसमुच्चयार्थः । एवं मन्यते-ईश्वरस्य ज्ञान-तनुकरणभुवनादीन्युपकरणानि यदि तत्कर्मणों भवन्ति परस्यापि तत एवेति किम् ईश्वरेण ? तदधिष्ठितादिति चेत् ; एतदपि नाऽनेन उत्सृष्टम् । ईश्वरादेव इति चेत् ; तव्याघातः अकर्मवादश्च । अति (अनि)त्यज्ञानस्य दे (महे) श्वरस्य सकलोपकरणादिज्ञानं प्र मा ण सं ग्रह- २० भा ष्ये निरस्तम् । .
किंच, स्वतन्वादिकरणे यद्यत् याव[त्] परं तदपेक्षेत संसारित्वम् इतरवत् । अनपेक्षणे अन्यतन्वादिकरणेऽपि किं तदपेक्षणेन ? वितनुकरणोऽपि स्वस्य देहादिकं सम्पादयन्ति (यति) न परस्य इति महती प्रेक्षापूर्वकारिता ! एतदेव दर्शयन्नाह-वितनुकृतेः इत्यादि । निगमनमाहतदित्यादि । ..
क ण च र स्य अक्ष पा द स्य च देहादीनाम् ईश्वरं कारणं वदतः स्ववचनविरोधम् इदानीं दर्शयन्नाह-'संसार' इत्यादि ।
[संसारसुखसंवित्तिक्षयात् मोक्षात्मकं वदन् ।
देहादेरीश्वरो हेतुर्यदि शास्त्रं विहन्यते ॥१८॥ सूत्र का रः आत्मादितत्त्वज्ञानात् निःश्रेयसाधिगमं परं पुरुषार्थमाह । स एव ३० संसारं परं सूचयति, यतः देहादिरीश्वरहेतुः । तदनयोः परस्परविरोधात् सू त्र का र स्य
(१) ईश्वरस्य । (२) नित्यस्य ईश्वरस्यापि अन्यचेतनाधिष्ठितत्वे । (३) ईश्वरकर्मणः। (४) . अन्यजनस्यापि। (५) ईश्वरः।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org