________________
४८२ सिद्धिविनिश्चयटीकायाम्
[७ शास्त्रसिद्धिः एतेन पद्मविकासकारणभास्वत इव तस्य देहादिकरणे स्वभावः चिन्तितः। कर्मणो जीवस्य वा संसारिण [:] तत्स्वभावकल्पनापत्तेः ।
ननु देहादीनामारम्भका अवयवा बुद्धिमदधीनाः स्व (वि) कारित्वात् तन्त्वादिवत् । तथा, शरीरादयो बुद्धिमत्का[रणकाः स्वा]रम्भकावयवसन्निवेशविशिष्टत्वाद् अचेतनोपादानत्वात् ५ कार्यत्वात् पटादिवत् इति चेत् ; अत्राह-स्थित्वा प्रवृत्तीत्यादि ।
[स्थित्वा प्रवृत्तिसंस्थानविशेषार्थक्रियादयः।
अन्यथैवोपपद्येरन ततो नेश्वरहेतवः ॥१७॥ नैव तनुकरणादीनां बुद्धिमद्धेतुकत्वे स्थित्वाप्रवृत्तिः अर्थक्रियाकारित्वं वा हेतुः व्यभिचारात् । नित्येषु [आत्मादिषु] स्वयमभिमतत्वात् । स्वारम्भकावयवसन्निवेशनिमि१० त्तत्वं सतनुकरणस्य घटादेवि हेतुः स्यात् । बुद्धिमत्कारणपूर्वतामात्रं परेषामिष्टमेव । वितनुकृतेः ''तत् ।]
नन्वेतद् ईइवरसाधकं प्रमाणं पूर्वं 'जीवोपयोगयोग्यैः' इत्यादिना दूषि[त]मपि किमर्थं पुनर्दूष्यते इति चेत् ? न ; पूर्वम् इतरद् वितनोः शरीरादिकरणसामर्थ्य निर
स्तम् , इदानीं तत्साधनं निराक्रियते इति विभागः। स्थित्वा प्रवृत्तिश्च विरम्य कार्ये व्यापारः १५ संस्थानविशेषश्च स्वारम्भकावयवसन्निवेशभेदः अर्थक्रिया च कार्यः कारणान्ताः (कार्य
करणम् , ताः) आदयो येषाम् , आदिशब्देन कार्यत्वादिपरिग्रहः, ते, अन्यथैव ईश्वरा[भा]वप्रकारेण उपपद्यरन ततो विरुद्धा इति ।
ननु विपक्ष एव भवन् विरुद्धो हेतुः, अयं तु सपक्षेऽपि घटादौ वर्तते, व्यभिचारी तु स्यात् । अथ नित्येश्वरविरुद्धे परिणामिनि वर्त्तते इति विरुद्ध उच्यते; तस्यैव साधने कथं २० विरुद्धः ? नित्यत्वप्रतिज्ञाव्याघात इति चेत् ; न; भवतोऽपि *"लोकं (कः) खलु अकृत्रिमः" इत्यस्य [३८२क] तत्साधनेऽपि विरोधः । न च सेश्वरसाङ्ख्यवादिनः सत्प्रतिज्ञा ।
(१) सूर्यस्य । (२) ईश्वरस्य । (३) "महाभूतचतुष्टयमुपलब्धिमत्पूर्वकं कार्यत्वात् "सावयवत्वात्" -प्रश० कन्द० पृ० ५४ । प्रश० व्यो० पृ० ३०१ । वैशे० उप० पृ० ६२ । “शरीरानपेक्षोत्पत्तिकं बुद्धिमत्पूर्वकं कारणवत्त्वात्..."-प्रश० किरणा० पृ० ९७ । न्यायली० पृ० २० । न्यायमुक्ता० दि० पृ० २३ । "बुद्धिमत्कारणाधिष्ठितं महाभूतादिव्यक्तं सुखदुःखादिनिमित्तं भवति रूपादिमत्त्वात् तुर्यादिवत् । धर्माधौं बुद्धिमत्कारणाधिष्ठितौ पुरुषस्योपभोगं कुरुतः करणत्वात् वास्यादिवत् । बुद्धिमत्कारणाधिष्टितानि स्वासु स्वासु धारणादिक्रियासु महाभूतानि वाय्वन्तानि प्रवर्तन्ते अचेतनत्वात् ।"-न्यायवा० पृ० ४५७६७ । “विवादाध्यासिताः तनुतरुमहीधरादयः उपादानाभिज्ञकर्तृका उत्पत्तिमत्त्वात् अचेतनोपादानत्वाद्वा... यथा प्रासादादि।" -न्यायवा० ता० टी० पृ० ५९८ । न्यायमं० पृ० १९४ । “कार्यायोजनइत्यादेः पदात् प्रत्ययतः श्रुतेः । वाक्यात् संख्याविशेषाञ्च साध्यो विश्वविदव्ययः ॥"-न्यायकुसु० ५।१ । “तत्राविद्धकर्णोपन्यस्यतम् ईश्वरसाधने प्रमाणद्वयमाह-यत्स्वारम्भकेत्यादि । यत्स्वारम्भकावयवसन्निवेशविशेषवत् । बुद्धिम तुगम्यं तत्तद्यथा कलशादिकम् ॥ द्वीन्द्रियग्राह्यमग्राह्यं विवादास्पदमीदृशम् । बुद्धिमत्पूर्वकं तेन वैधयेणाणवो मताः ॥ तन्वादीनामुपादानं चेतनावदधिष्ठितम् । रूपादिमत्त्वात्तन्त्वादि यथा दृष्टं स्वकार्यकृत् ॥"- तत्त्वसं श्लो० ४७-४९ । (१) पृ० ४७७ । (५) शरीररहितस्य । (6) ईश्वरस्यैव । (७) "लोगो भकिट्टिमो खलु"-मूला० गा० ७१२ ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org