________________
४८१
७.१६]
ईश्वरकारणतानिरासः (क्षमोऽपि औ)दासीन्यं न [ल]भत इति ; तत्राह-सकर्मणां वा इत्यादि । सकर्मणामेव न निष्कर्मणांजन्तूनां देहादिकर्मणि हेतुः। का ? प्रवृत्तिः। कस्याः ? ईश्वरेच्छायाः अद्यषां (अन्येषां) तत्प्रेर[क] कर्माभावादिति मन्यते । अत्र दूषणम्-प्राणिस्थमित्यादि । प्राणिस्थं देहादिहेतुः किन्न ईश्वराद्विना ईश्वरमन्तरेण 'सकर्मणाम्' इति सम्बन्धः । एवं मन्यते-यया प्रत्यासत्त्या कर्माणि ईश्वरं प्रेरयन्ति तयन्ति' तया देहादि हादिकुन्विति ५ (कुर्वन्तु इति)।
ननु देहादिकर्मणीश्वरेच्छायाः प्रवृत्तिहेतुरिति पूर्वः पक्षः कृतः, दूषणं पुनरीश्वर एवोच्यते, [३८१क] पूर्वपक्षानुसारिणा च दूषणेन भवितव्यमिति चेत् ; न; तास्थाता तात्स्थ्यात् त]च्छब्दमिति इच्छया ईश्वरः तेन च साध्य इति न दोषः ।
कारिकां विवृण्वन्नाह-मुक्तात्मनाम् इत्यादि] । मुक्तात्मनां तनुकरणादिदुःखोपयो- १० राम कुवर्व कुतः (पयोगमकुर्वतः) अकर्मकत्वात्तेषाम् , सकर्मणामेव कुर्वन्ति इत्यर्थः । कर्म 'तत्रोपसी (ची) यत इति अध्याहारः। ततः किम् ? इत्याह-स्वयमित्यादि । स्वयं स्वस्य प्रेरकम ईश्वरोऽपेक्षते कर्मे त्या]द्यवश्य (श्य) नियमेन । तथा वा (चा)चेतनं (न) कर्ममाहात्म्याद् नियमेन । यतः यस्मात् सामर्थ्या[त] तदिच्छामात्रम् ईश्वरेच्छामात्रं सन्निधापयति तत एव माहात्म्यात् देहादिकं ततो निष्पादयेदचेतनम् किम् ईश्वरेच्छया ? दूषणान्तरमाह- १५ तद्वार]मित्यादि । यो
ननु न केनचित् प्रेरितोऽसौ तन्निमित्तम् , अपि तु क्रीडया इति चेत् ; अत्राह-मुक्तात्मनोऽपि इत्यादि ।
[मुक्तात्मनोऽपि देहादि कुर्वन् स्यात् क्रीडनोऽन्यथा। . बुद्धिमान योजयेजन्तून् कथं भवितव्यतावशात् ॥१६॥ २० यदि...]
न केवलं सकर्मणाम् अपि तु मुक्तात्मनोऽप्यकर्मणोऽपि कुर्वन् स्यात् देहादीः (दि) क्रीडा (ड)नः नान्यथा। न सिष्ट (शिष्ट)परिहारेण राजा कृतदोषं वधबन्धनादिना योजयन् क्रीडनो नाम । मुक्तात्मनोऽपि तत्करणे सिष्ट (शिष्टः) न स्यादिति चेत् ; किं क्रीडनस्य (डनः स्यात् ?) । तया तस्यापि करोतीति चेत् ; अत्राह-किं बुद्धिमान् नैव क्रीडन इति सम्बन्धः । २५
किंच, यदि क्रीडनः सन् देहादीन् देहिनां विदधाति महेश्वरः, तदा शुभकारिणोऽपि नरकादिना योजयेद् अशुभकारिणोऽपि स्वर्गादिना इति तदाराधनादिकमनर्थकम् ; एतदेवाह-योजयेदि [त्यादि] । योजयेत् जन्तून 'देहादिभिः' [३८१ख] इति [वि]भक्तिपरिणामेन सम्बन्धः । कुतः ? इत्याह-भवितव्य[ता]वशात् न शुभाशुभकर्मवशात् कथं नैव सङ्करेण योजयेत् इत्यर्थः ।
३० कारिकार्थ स्पष्टयन्नाह-यदीत्यादि । सर्वं गतार्थम् । (१) 'तयन्ति' इति पुनलिखितम् । (२) ईश्वरः । (३) क्रीडया।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org