________________
७।१३]
ईश्वरकारणतानिरासः ननु मम बुद्धिमत्कारणमात्रसिद्ध्या प्रयोजनम् , तत्कारणम् ईश्वरो भवतु परो वा परिणाम्येव इति चेत् ; अत्राह-समवायीत्यादि । तस्य ईश्वरस्य अन्यस्य वा परिणामोपगमेऽपि, अपिशब्दः पक्षान्तरसूचकः । कुतः तदुपगमः ? इत्याह-समवायीत्यादि । समवायिकारणत्वं च स्थित्वाप्रवृत्तिश्च आदिशब्देन निमित्तकारणत्वादिपरिग्रहः तस्य परिणामिन एव संभवात् इति । तत्र दूषणम्-प्रवर्त्तनेत्या [दि । प्रवर्तनालक्षणा] दोषा रागादयः कथं न स्युः नैव ५ ईश्वरस्येति । किंभूताः ? इत्यत्राह-तजन्महेतवः तच्च तनु (तत्) शरीरेन्द्रियादिसम्बन्धलक्षणं जन्म तस्य हेतवः, तस्यापि संसार इतरजीववत् स्यादित्यर्थः । तस्य दोषास्तित्वे किं प्रमाणमिति चेत् ? अत्राह-[३७९ख] प्रवर्त्तमानानां जन्तूनां प्रेरणा प्रवर्तना सैव लक्षणं चिह्न येषां ते तथोक्ताः । तथाहि-यः परममिष्ट (परम् इष्टानिष्ट)कर्मणा योजयति स रागादिनामवे (दिमानेव) तनो यथा ध्यानो [?] योजयति च तेन परमीश्वर इति । रागाद्यभावेऽपि तस्य तत्प्र- १० वर्त्तना[s]विरोधादनैकान्तिको हेतुरिति चेत् ; अत्रोत्तरम् 'तन्वादिकरणाद्' इत्यादि भविध्यति । सतोऽपि (सन्तोऽपि) तस्य रागादयो न कर्मसम्बन्धकारणं देवताविशेषत्वाद् यथा मयूरस्य विषं न रमण (मरण)कारणम् । अत एव दोषसद्भावत एवं (व) कर्म सम्बन्धोपपत्तेः तज्जन्महेत[वः] कथन्न स्युः इति ? अन्यथा सर्वस्यापि तंतस्तत्सम्बन्ध (न्धा)भावं इति मन्यते ।
एवं तायत् (तावत) स्वयुक्त्या संसारित्वं तस्य दर्शनम् (दर्शितम्) । अधुना परयुक्त्या दर्शयन्नाह-चेतनकृतम् इत्यादि । चेतनकृतं सूपादि किश्चित् , न सर्वं तथा, प्रमाणाभावात् परस्य इति निरूपितम् *"भूता भव्याः" [सिद्धिवि० ३।८] इत्यादिना । किंभूतम् ? इत्याहउपभोगयोग्यम् प्राणिना(नां) भोग (ग्य)मित्यर्थः । तत्किं कृत्वा ? इत्याह-संप्रेक्ष्य दृष्ट्वा सर्वत्र सर्वस्मिन् उपभोगयोग्यकल्पनायां क्रियमाणायां 'चेतिनकृतत्वस्य' इति सम्बन्धः। तथा २० च परप्रयोगः-राज्यादिवा (व)न्नरेन्द्रादिभिः केनचित् चेतनावता कल्पितं भुज्यते, भोग्यत्वात् , सूपादिवत् । योऽसौ ते (अन्ते) "कः संभवावान् (स भगवान् ) महेश्वर इति । तत्र परिहार:सतनुकरणकृतिः तनुकरणवता करणम् उपभोगयोग्यस्य किन्न प्रसज्येतौ च (ज्येत ?) अत्रापि स एव प्रयोगो दृष्टान्तोऽपि सूपकार एव तथा च तेना (न) च स्वशरीरादिकम् अन्ये[न] [३८०क] तदनुभुज्यते, तेनाप्यन्येन इत्यनवस्था इति भावः । अथासौं अतनुकरण इष्यते अन्येन २५ वा दत्तं शरीरादि भुङ्क्ते; न; अत्राह-दृष्टेत्यादि । परोपभोगयोग्यस्य सूपादेः करणम् , दान (न)वा सतनुकरणस्य सूपकारादेः अन्यदत्तं जातस्य(प्राप्त) वा दृष्टम् तद्व्यतिक्रमे क्रिया [?] क्रियमाणे स्वकर्मणः भोक्तुर्यदात्मीयं कर्म तस्य तत्सामर्थ्य भोक्त्रुपभोगयोग्यकरणसामर्थ्य कल्पयितुं युक्तम् । यथा [अ] चेतनस्य चेतनानधिष्ठितस्य तत्सामर्थ्य न दृष्टं तथा चेतनस्य वितनुकरणस्यापि न दृष्टम् । कल्पनम् अन्यत्रापि समानमिति भावः ।
३० (१) ईश्वरस्य । (२) दोषात् । (३) कर्मसन्बन्धाभावः स्यात् । (४) ईश्वरस्य । (५) परमात्मा । (६) ईश्वरः। (७) उपभोगयोग्यकरणसामर्थ्यम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org