________________
३६०
___ सिद्धिविनिश्चयटीकायाम्
[५ वादसिद्धिः किञ्च, अबाधितविषयत्वं किं बाधकस्यादर्शनात् , उत पूर्ववच्छेषवत् सामान्यतोऽदृष्टम् इत्येतस्मात् , आहोस्वित् विपक्षे बाधकप्रमाणदिति त्रयः पक्षाः। तत्र आद्य पक्षे व्यभिचारः, सतोऽपि बाधकस्य कुतश्चिददर्शनसंभवात् , पुनः पर्यायेण दर्शनात , [२९१ख] अदृष्टदोषेषु शास्त्रेषु परी
क्षया पुनः दोषदर्शन (नात्) । कालत्रयबाधा[s]दर्शनम् अन्तर्व्याप्तिमन्वाकर्षति । द्वितीये प्रेकृत५ मपि परिहृतम् । तृतीये सिद्धो नः सिद्धान्तः ।
यत्पुनरेतत्-पूर्ववत् कारणवत् इति; तदप्यसारम् ; वीतरागाभावप्रसङ्गात् । क्षणचयान्यो या (कणचरोऽन्यो वा) वीतरागत्वेन अभिमतो रागादिमान् पुरुषवत् । पुरुषो हि रागादीनां कारणमिष्यते बुद्ध्यादीनां कार्याणां तद्विशेषगुणत्वोपगमात् । वीतरागत्वेनोपगतो न तत्कारणम् ;
न तर्हि संसारिणो मोक्षः स्यात् , इति तदर्थमनुष्ठानमनर्थकम् । न चैतन्मन्तव्यम्-सामग्री रागादि१० कारणं न केवलः पुरुषः, तस्याः तदनुमाने सिद्धसाधनम् , पुरुषाद् व्यभिचार इति; नित्यस्य
अपेक्षानिषेधात् तस्याः तत्कारणत्वानुपपत्तेः । यदि पुनस्तस्यं तत्कृतोऽवस्थाविशेषः तदव्यभिचारी इति; तत एव तदनुमानम् एकलक्षणशासनम् ।
___ यच्चान्यत्-'शेषवत् कार्यवद्' इति; तदप्यसुन्दरम् ; यादृश एव घटादेः संस्थानविशेषः चक्रचीवरनारदण्डादेर्भवति तादृशस्यैव"पाकजोत्पत्तौ तदभावेऽपि स्वयमभ्युपगमात् । एवं च सति १५ चक्रादिवत् उपलब्धिमदभावेऽपि कचित्तत्संभवाशङ्कायां कथमतः पर्वतादौ बुद्धिमत्कारणानुमानं
निःशङ्कम् । अथ यथा चक्राद्यभावेऽपि तदर्शनं [तथा] बुद्धिमदभावे यदि कदाचित् स्यात् को विरोधः ? विरोधे वा तत एव गमकत्वोपगतेः (त्वोपपत्तेः) किं शेषवत्' इत्यनेन ।
यत् पुनरन्यत्-[२९२क] सामान्यतः सामान्येन अकार्यकारणत्वेन दृष्टं रूपादौ रसादिकम्"; तदप्यसमीक्षिताभिधानम् ; यतः कुतः कुतश्चित् यस्य कस्यचित् प्रतिपत्तिप्रसङ्गात् । अथ २० एकस्मिन् द्रव्ये ततस्तदनुमानम् , अतोऽयमदोषः ; तर्हि रसाद् रूपवत् क्वचित् फले बुद्ध्यादेर
नुमानं सहभावस्य कदाचिद्दर्शनं (नात्)। तत्रं तस्य ("तस्याs) समवायाच्चेति चेत् ; एकार्थसमवायः तर्हि गमकत्वे निबन्धनम् । भवतु को दोष इति चेत् ; न; 'ततः तद्वत् १ कर्मणोऽनुमितिः स्यात् तदविशेषात् । तथापि रूपादेरेव "तत्संभवे किमेकार्थसमवायेन ? यदि च रूपरसादेः कचित्"
सहभावदर्शनाद् अन्यत्र रसाद् रूपगतिः; तर्हि स्पर्शवत्त्वादेः तत्र दर्शनात् स्पर्शात् जलादौ २५ गन्धादिप्रतिपत्तिरस्तु । अथ अनुमीयमानजलादिसजातीये गन्धाद्यदर्शनात् नैवम् ; अत एव
सर्वत्र तदनुमानम् । नचायमेकान्तः तत्सजातीये एव दृष्टसम्बन्धलिङ्गिनं गमयति तत्, अन्यथाप्यविरोधात् , इतरथा कथन्न परमतसिद्धिरिति यत्किञ्चिदेतत् ।
(१) क्रमेण (२) अबाधितत्वमपि । (३) कणादः इत्यर्थः । (१) रागादिकारणम् 1 (५)सामग्र्याः । (६) रागाद्यनुमाने । (७) यतः सामग्री रागादिकारणम् अतः केवलपुरुषात् तदुत्पादो न भवति । (6) पुरुषस्य (९) सामग्र्याः । (१०) पुरुषस्य । (११) अग्निसंयोगजरूपाद्युत्पत्तौ । (१२) चक्रायभावेऽपि । (१३) “सामान्यतोदृष्टं तु यदकार्यकारणभूताल्लिङ्गात् तादृशस्यैव लिङ्गिनोऽनुमानं यथा कपित्थादौ रूपेण रसानुमानम् ।"-न्यायम० प्रमा० पृ० ११९ । (१४) 'कुतः' इति द्विलिखितम् । (१५) फले। (१६) बुद्ध्यादेः । (१७) एकार्थसमवायात् । (१८) रूपवत् । (१९) क्रियायाः (२०) अनुमितिसंभवे । (२१) फले । (२२) लिङ्गम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org