________________
५/२२ ]
पूर्ववदादयोऽहेतवः
३५९
किं सम्बन्धान्तरेण तादात्म्यादिलक्षणेन ? किंभूतेन ? अन्तर्गड़ना अनर्थकेन । अन्यथानुपपत्तिसम्बन्धेन तत्प्रयोजनप्रसाधनादिति मन्यते ।
स्यान्मतम्-सम्बन्धान्तरमन्तरेण 'सापि न सती निश्चीयते वा तत्कथं तस्य अन्तरं गतः नेति ( अन्तर्गडुतेति ) चेत् ; अत्राह - एकलक्षणसिद्धि: [ इत्यादि ] ।
[ एकलक्षणसिद्धिर्वा साकल्येन कथं तथा । एतत्पूर्ववदादौ च योजनीयमसाधनम् ॥२२॥]
एकं प्रधानम् अन्यथानुपपन्नत्वं यत् साधनलक्षणं तस्य सिद्धिः निर्णीतिः साकल्येन कथम् इत्यादिना ' कृता' इति अध्याहारः । वक्ष्यमाणानन्तरपरिच्छेदे करिष्यि वा । एवं तावत् 'पूर्वत्वकार्यत्वादिलक्षणं सौगतकल्पितम् अन्यथानुपपत्तिरहितत्वादसाधनम्' इति प्रतिपाद्य [ नैयायिकं ] प्रति पूर्वत्वादिलक्षणं तंद्रहितत्वादसाधनम्' इति प्रतिपादयन्नाह - तथा १० इत्यादि । तथा तेन अनन्तरप्रकारेण योजनीयम् असाधनम् इत्येतत् । क ? इत्यत्राह - पूर्ववद् इत्यादि । आदिशब्देन वीतादिपरिग्रहः । तथाहि - पूर्ववच्छेषवत् पक्षसपक्षवत्, न साधनम् अन्यथानुपपत्तिरहितत्वात् तदन्यवत् । इतरथा 'विवादास्पदं सर्वमनित्यं सत्त्वात् दीपादिवत्' इत्यपि स्यात् पूर्ववच्छेषवद् इत्यस्य लक्षणस्य भावात् । अथ अनित्यत्वाभावेऽपि सत्त्वस्य आत्मादौ भावात् नेदं साधनम् ; किं तर्हि स्यात् ? यत् तदभावे नियमेन न भवति ; १५ अन्यथानुपपत्तिरियम्, इति अन्तर्गडुना किं 'पूर्ववद्' इत्यादिना ? तथा पूर्ववत्सामान्यतोदृष्टं [२९१] विपक्ष ( पक्षविपक्षवत् ); इत्येतदपि तद्रहितं न साधनम्, अन्यथा 'स्वसंवेदनं घटादिज्ञानम् आत्मविशेषगुणत्वात्, यः पुनः स्वसंवेदनो न भवति स तद्विशेषगुणो न भवति इति यथा रूपादिः' इत्यपि स्यात्, पूर्ववत्त्वस्य विपक्षे सामान्यतो विशेषतो वाऽदर्शनस्य च भावात् । अथ तं स्वसंवेदनाभावेऽपि प्रयत्नादौ तद्विशेषगुणत्वस्य भावात् नेदं साधनमिति किं तर्हि स्यात् ? २० यत् तदभावे नियमेन न भवति ; उक्तमत्र अन्यथानुपपत्तिसमर्थनमिति । तथा पूर्ववच्छेषवत् सामान्यतोऽदृष्टम् इति वचन [म] युक्तम् ; कथमन्यथा 'पक्कान्येतानि फलानि एवंरसानि च एकशाखाप्रभवत्वाद् उपयुक्तफलवत्, यानि पुनः एवंविधानि न भवन्ति तानि एकशाखाप्रभवाणि भवन्ति यथा अविवक्षितफलानि ' इत्येवमाद्यपि युक्तं [न] भवेत् । बाधितविषयत्वात् नेति चेत्; ननु *" लक्षणयुक्ते बाधासंभवे तल्लक्षणमेव दूषितं स्यात् " [प्र० वा०स्ववृ० २५ पृ० ६६] इति कथमन्यत्र समाश्वासो यतः पूर्ववत्त्वादि साधनं स्यात् ? अबाधितत्वा तल्लक्षणात् (क्षणत्वात्)। नाऽस्य लक्षणयोगः इति चेत्; किमिदं बाधिततत्त्वम (धितत्वम् ?) साध्याभावेऽपि साध्यधर्मिणि दर्शनम् ; अबाधितत्वं तदभावे नियमेनाऽदर्शनम् इति अन्यथानुपपन्नत्वम्- अबाधितत्वम् इति नानयोः अवस्थयोः विशेषः ।
(१) अन्यथानुपपत्तिरपि । ( २ ) अन्यथानुपपत्तिरहितत्वात् । (३) अन्यथानुपपत्तिरहितम् । ( ४ ) आत्मविशेषगुणः । (५) साध्याभावे - विपक्षे इत्यर्थः । (६) अबाधितत्व - अन्यथानुपपन्नत्वयोः ।
Jain Education International
५
For Personal & Private Use Only
www.jainelibrary.org