________________
५/२३ ]
अन्यथानुपपन्नत्वं हेतुलक्षणम्
३६१
ननु साकल्येन साध्याभावे साधनाभावस्य प्रत्यक्षतः प्रतिपत्तौ प्रतिपत्तुः सर्वज्ञत्वम् । अनुमानतोऽनवस्था' । न च मानान्तरमिति चेत् ; अत्राह - 'सत्तर्केणोद्यते रूपम्' इत्यादि । [ सत्तर्केणोह्यते रूपं प्रत्यक्षस्येतरस्य वा । अन्यथानुपपन्नत्वं हेतोरेकलक्षणम् ॥२३॥
सन्निकृष्टं विप्रकृष्टं वार्थं साकल्येनेदन्तया नेदन्तया वा व्यवस्थापयितुकामस्य अन्यथाभावविषयस्तर्कः परं शरणं नापरम्, सर्व [विषयत्वात् ] ततः शब्दविकल्पयोस्तत्वसाधनमलङ्घ्यशासनं प्रचण्डभूपतेर्वा ।]
त (सत्त) केंण सर्वत्र स्ववेदनाभावे ज्ञानत्वानुपपत्तिलक्षणान्तराभावाद् इति अस्पष्टोहविकल्पेन [न] दर्शनादिना ऊह्यते वितर्क्यते यद् रूपं स्वभावः । कस्य ? इत्याह- हेतोः लिङ्गस्य । किंभूतस्य ? प्रत्यक्षस्य प्रत्यक्ष ग्रहणयोग्यस्य [ २९२ख ] सत्त्वधूमादेः इतरस्य वा १० तदग्रहणयोग्यस्य वा । यथा अनन्तज्ञानस्य अनन्तसुखसाधने तस्य वा बुभुक्षाद्यभावे (व) साधने तत्रैवै वा अनन्तवीर्यस्य । ए न च ( एतच्च) अस्मदाद्यपेक्षया उक्तम् ; अन्यस्य अशेषं प्रत्यक्षमेव । किं तद्र ूपम् ? इत्याह-अन्यथानुपपन्नत्वम् साध्याभावे नियमेन साधनस्य अघटनम् । तत्किम् ? इत्याह-तद्र ूपम् एकलक्षणं प्रधानलक्षणम् । कस्य ? इत्याह- हेतोः इति आवृत्त्या सम्बन्धः । एतदुक्तं भवति-न प्रत्यक्षेण अनुमानेन वा निश्चितं रूपम् एकं लक्षणं हेतोः यतः १५ प्रतिपत्तुः सर्वज्ञत्वमनवस्था वा, किन्तु मनोविकल्पेन । सर्वज्ञत्वमतस्तस्येष्यत एव । यदाह
*"अशेषविदिष्यते सदसदात्मसामान्यवित् ।
जिन प्रकृतिमानुषोऽपि किमुताखिलज्ञानवान् ||" [ पात्रके० लो० १९] इति ।
ननु तर्को नास्ति अनुपलम्भात् खरविषाणवत्, कथं तेन' असता किञ्चिदूह्यते ? सतो - पि वा आनर्थक्यम्, तदर्थस्यान्यतः सिद्धिः तेति (सिद्धेरिति ) चेत्; अत्राह - सन्निकृष्टम् २० इत्यादि । सन्निकृष्टं पुरुषमात्रदर्शनयोग्यं विप्रकृष्टं वा तद्विपरीतम् अर्थं सत्त्व-धूमादिकम् साकल्येन देशकालान्तरव्याप्त्या इदंतया अनित्यादि - अग्निस्वभावकार्यतया नेदंतया वा नित्यअनग्निस्वभावकार्यतया अनव ( व्यव ) स्थापयितुकामस्य लोकस्य तर्कः परं प्रकृष्टं शरणम् । किंभूतः ? अन्यथा साध्याभाव [ अभावः ] स विषयो यस्य स तथोक्तः । इदमुक्तं भवतिअनभिमतपरिहारेण अभिमतं तत्त्वम् अनवयवेन [ २९३ क ] व्यवस्थापयितुमिच्छता अनुमानमे - २५ ष्टव्यम् । "तदप्यभ्युपगच्छता लिङ्गं साध्याविनाभावनियमैकलक्षणम् तश्चय स च (तन्निश्चयश्च ) तर्कात् नान्यतः इति तर्कमभ्युपगम्य निषेधतो द्विष्टकामते ।
यत्पुनरुक्तम् - स्वतोपि (सतोऽपि ) वानर्थक्यं तदन्यस्य ( तदर्थस्य ) अन्यतः सिद्धेरिति ;
(१) तस्याप्यन्यतोऽनुमानात् सम्बन्धप्रतिपत्तिरिति । (२) अनन्तसुखस्य वा । ( ३ ) बुभुक्षुाद्यभावे साध्ये | तुलना - "केवली न भुङ्क्ते रागद्वेषाभावानन्तवीर्य सद्भावान्यथानुपपत्तेः ।" - प्रमेयक० पृ० ३००। “अनाकाङ्क्षारूपत्वेऽप्यस्या दुःखरूपतया अनन्तसुखे भगवत्यसंभवात् । " - प्रमेयक० पृ० ३०५ । (४) सर्वज्ञस्य । (५) तर्केण । (६) अनुमानमपि ।
४६
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org