________________
५/१७ ]
जयपराजयव्यवस्था
तदप्युक्तम्-नासमर्थितमेव साधनमिष्यते निग्रह [ प्राप्तेः ] शब्दत्वं साधनमेव साध्यव्यापकस्वभावत्वात् साकल्येन अनित्यत्वसाधने सत्त्वादिवत् तदेकलक्षणोपपत्तेः, अन्यथा दृष्टान्ते सत्यप्यगमकत्वात् । ]
वचनम् उक्तिः अनित्यत्वविशिष्टा साध्या चासौ उक्तिश्च अनित्यः शब्दः इति । किं सा ? इत्यत्राह-साधनं हेतुः इत्यर्थः । कुतः ? इत्याह- शब्दस्य अ [वि] निवृत्तौ ५ अपरिणामे [अ] संभवात् कारणात् 'साध्योक्तिः साधनम्' इति । ततः किं जातम् ? इत्याह-न भावः कृतकत्वं वा 'साधनम्' इत्यनुवर्त्तते, शब्दाऽनित्यत्वस्य रव संभावि (असंभवादिति) वचनाद् अन्यत एव सिद्धेः । यदि पुनः 'अनित्यः शब्द:' इत्युक्त्वा 'सत्त्वात् कृतकत्वाद्वा' इति ब्रूयात्; तर्हि उक्तस्य शब्दत्वस्य [स्वय] मसमर्थस्य तत्सामर्थ्यापरिज्ञानेन सत्त्वादिकमुच्यमानं हेत्वन्तरतया निग्रहस्थानं स्यादिति मन्यते ।
ननु यदि शब्दों हेतुः ; 'तस्य सदा भावात् ततः सदा साध्यप्रतीतेः न कदाचित् कस्यचित् नाम नित्यत्वे विवादः स्यादिति चेत्; अत्राह - असाधनम् इत्यादि । 'भावः कृतकत्वं वा' एतद् इह अनुवर्त्तते । वाशब्द इवार्थे । ततोऽयमर्थः- भाव इव कृतकत्वमिव शब्दः साधनं नासमर्थितम् अपि तु समर्थितमेव । समर्थनं च तस्य न सदा इति कुतः ततः सर्वदा व्य (साध्य) प्रतीतिः, इतरथा अन्यत्रापि समानमेतत् ।
३५१
१५
इत्यादिना कारिकां विवृणोति । एतावता शब्दस्य परिणाममन्तरेण [ २८५ क] असंभवमात्रेण प्रकृतार्थपरिसमाप्तौ शब्दपरिणामसिद्धिनिष्पत्तौ किं सत्त्वकृतकत्वादिना 'प्रयुक्तेन ' इत्यध्याहारः । ननु सर्वस्य सर्वदा भावाद् अर्थप्रतीतेर्न विवाद इति चेत्; अत्राह - ननु इत्यादि । ननु इति शिरः कम्पे, एतदप्युक्तम् प्रतिपादितम् । किम् ? इत्याह- नासमर्थितमेव साधनम् इष्यते । कुतः ? इत्याह - निग्रह इत्यादि । न च सर्वदा तत्समर्थनम्, यतस्तथैव साध्यप्रतीति- २० रिति भावः ।
ननु दृष्टान्तेन तत्समर्थन ( नं न ) च सोऽत्र इति चेत्; अत्राह - शब्दत्वं श्रावणत्वं वा साधनमेव असाधनं न भवति । कुतः ? इत्याह- साध्य इत्यादि । साध्यवासौ व्यापकरच सः स्वभावो यस्य तस्य भावात् तत्त्वात् । केव किमिते त्याह ( किमिति चेत् ? आह-) साकल्येन अनित्यत्वसाधने सत्त्वादिवत् । एतदपि कुतः ? इत्याह- तस्य एकं यल्लक्षणं तस्य २५ उपपत्तेः, अन्यथा एकलक्षणोपपत्त्यभावप्रकारेण दृष्टान्ते सत्यपि अगमकत्वात् । यथा 'प्रयत्नानन्तरीयकः अनित्यत्वाद् घटवत्' अत्र साध्यसाधनयोः तादात्म्यं सिद्धम्, अन्यथा 'अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात्' इत्यादि न स्यात् । नहि इदं साध्यं क्रियमाणं तादात्म्यं जहाति । न साधनम् इति युक्तम् । यदुक्तम् अ र्च टे ने -"प्रयत्नानन्तरीयकत्वस्वभावम् अनित्यं
(१) शब्दस्य । ( २ ) दृष्टान्तः । (३) “यदि प्रयत्नानन्तरीयकत्वमन्तरेणापि कृतकत्वस्य भावादतत्स्वभावत्वम् ; अनित्यत्वेऽप्ययमेव वृत्तान्तः । ततश्च तादात्म्यविरहात् प्रयत्नानन्तरीयकत्वस्यानित्यत्वेनान्वयो न स्यात्, तन्निवृसौ वा निवृत्तिरिति कथं ततस्तत् प्रतीयते ? नैष दोषः प्रयत्नानन्तरीयकपदार्थ स्वभावस्यैव अनित्यत्वस्य तेन साधनात् ।" - हेतुबि० दी० पृ० ७३-७४ ।
Jain Education International
१०
For Personal & Private Use Only
www.jainelibrary.org