________________
३५२ -
सिद्धिविनिश्चयटीकायाम्
[५ वादसिद्धिः साधनमेव तन्मात्रम्" [हेतुबि० टी० पृ० ७४] इति ; न ; सर्वानैकान्तिकविलोपप्रसङ्गात् ।
पुनरपि आधिक्यादिदोषोद्भावना [त्] परमार्थवादिपराजये दूषणं दर्शयन्नाह-सं वा (ता)मनुक्त्वा इत्यादि ।
[स तामनुक्त्वा वाऽनुक्तं साधनं चेत् समर्थ्यते ।
साभ्यवदृष्यमन्यच्च अप्रत्युच्चार्य दृष्यते ॥१८॥ पक्षमनुक्त्वा साधनं ब्रुवन् स्वयं पक्षीकरोति, पुनः समर्थनात् । साधनं यदि अनुक्त्वा समर्थयेत् किं यत्कृतकम् इत्यादिना ? परस्य साधनमप्रत्युच्चार्य दूषणसंभवे कथमनुक्तं न समर्थ्यते ? तदुभयत्राविशेषात् । तदन्यतरोक्तौ यदुक्तं निग्रहस्थानं तदुभयवचनेऽपि।]
संवास नित्यः (स ताम्' 'अनित्यः) शब्दः' इति प्रतिज्ञामनुक्त्वा तद्वचने निग्रहप्राप्तिः १० अनर्थकाभिधानाद्वा ववेत् (चेत् ) [२८५ख] किम् ? इत्याह-साधनं सत्त्वादिलिङ्गम् । अत्र
दूषणम्-समर्थ्यते असिद्धविरुद्धानैकान्तिकत्वमलविकलं क्रियते किन्न, 'किन्नकारयोः व्यवहितयोः अभिसम्बन्धः । किंभूतम् ? इत्याह-अनुक्तम् अनुच्चारितम् ।
नन्वेवं साधनाङ्गस्याबन्धना (वचनात् ) निग्रहस्थानम् ; उक्तस्य समर्थने प्रतिज्ञावचनं स्वयमभ्युपगतं निग्रहस्थानम् इत्युभयथा याप्तारज्जः (पाशारज्जू)। १५ स्यादेतत् , उक्त साधनं किमिव समर्थ्यते ? इत्याह-साध्यवत् शब्दानित्यत्ववद्
इति । अनुक्तस्य समर्थने को दोषः इति चेत् ? उच्यते-साध्यवत् तत्र विप्रतिपत्तौ साधनान्तरात् समर्थितात् समर्थनम् , तस्यापि अनुक्तस्यैव समर्थनं तदन्तरात् तस्यापि अनुक्तस्यैव तदन्तरात् इत्यनवस्थानात् साधनप्रयोगोऽनवसरः । किं च, वादिना उभयं कर्त्तव्यम्
स्वपक्षसाधनं परपक्षदूषणं च । तव (तत्र) प्रतिपक्षः तदा दूषितो भवति यदा प्रतिज्ञादिनिगमन२० पर्यन्तं साधनवाक्यं दूषयति । तच्च उच्चार्य यदि सौगतो वादी दूषयति; कथं प्रतिज्ञाप्रयोगो निग्रहदायी न भवेत् ? इति दर्शयन्नाह-दूष्यम् इत्यादि। दूष्यम् निराकरणमन्यदीपं (णीयम् अन्यत्) 'साधनम्' इत्यनुवर्तते, पक्षादीनाम् उपलक्षणभूतम् । च इति पूर्वसमुच्चये । प्रत्युचार्य पूर्वपक्षयित्वा दृष्यते निराक्रियते 'किम्' इत्यनेन सम्बन्धः । शास्त्रे वादकाले वा
पूर्वपक्षो न कर्त्तव्यः अन्यथा प्रतिज्ञावचनमवश्यंभावीति मन्यते । २५ एतेन नैयायिकादेः वादिनः सौगतः प्रतिवादी साधनं प्रत्युच्चार्य दूषयन् निरस्तो
वेदितव्यः । यदि पुनः नियमेन तदप्रत्युच्चार्य [२८६ क] दूष्यते ; तत्राह-दूष्यं च इत्यादि । च इति यथाऽर्थे । यथा साधनमप्रत्युच्चार्य दूष्यते तथा अनुक्तं किन्न समर्थ्यते ?
कारिकार्थं स्पष्टयति-पक्षमनुक्त्वा इत्यादिना । 'शब्दोऽनित्यः' इति पक्षम् अनुक्त्वा साधनं ब्रुवन् सौगतः पक्षीकरोति स्वयम् उच्यमानं साधनं साध्यं करोति । कुतः ? इत्यत्राह३० पुनः तद्वचनोत्तरकालम् समर्थनाद् असिद्धादिदोषविकलतया व्यवस्थापनात् 'साधनस्य' इति' विभक्तिपरिणामेन पदघटना । तच्च अवश्यम् अभ्युपेयम् अन्यथा निग्रहप्राप्तिः । अनुक्तं तत्
(१) सौगतः । (२) 'किम्' 'न' इति शब्दयोः । (३) षष्ठीविभक्ति । (४) साधनम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org