________________
३५०
सिद्धिविनिश्चयटीकायाम्
[५ वादसिद्धिः भावः कचित् प्रत्यक्षसिद्धः स्यात् 'तन्निदर्शनेन अन्योऽपि तथा स्यात् । न चैवमिति । ___स्यान्मतम्-पूर्वापरकोटिविच्छिन्नस्य मध्यक्षणस्य तद्विविक्तयोर्वा तत्कोट्योः प्रत्यक्षेण उपलम्भाः (लम्भात्), अन्यथा एकक्षण [२८४ क मानं (त्र) प्रसज्येत, तत्र केवलं दृश्यानुपलब्धेः अभावव्यवहारः साध्यते इति ; तत्राह-तत्र इत्यादि । [तत्र] तस्मिन् बाह्येतरनिरंश५ निरन्वयक्षणिकपरमाणुरूपे । कस्मिन् ? इत्याह-एकान्ते । किम् ? इत्याह-किं पुनर्नैव 'प्रसिध्यति' इत्यनुवर्तते। किम् ? इत्याह-उपलध्ध (ब्धि) इत्यादि । एतुदुक्तं भवति-तत्र एकान्ते यदि उपलब्धिलक्षणप्राप्त किश्चिद् भवति तस्य अनुपलम्भा (लम्भाद)भावः तद्व्यवहारो वा प्रसिध्येत् , न चैतदस्ति इत्युक्तप्रायम् । तल्लक्षणप्राप्तं तस्य अनुपलम्भात् तत्र अभावः
सिध्येत् । स तु नैकान्तेन, अक्रमेणेव क्रमेणापि एकस्य अनेकरूपसंभवादिति च, तत्तस्य १० कस्यचिद्भावस्य क्षणक्षयदर्शनात् सर्वस्य तेन व्याप्तिसिद्धिरिति स्थितम् ।
यत्पुनरुक्तम् अ र्च टे नै-*"सत्त्वस्य विपक्षाद् व्यावृत्तेः क्षणिकत्वेन व्याप्तिसिद्धिः न बहिदृष्टान्तबलेन, दृष्टान्तवचनं तु कार्य हेत्वपेक्षया स्वभावविशेषापेक्षया च।" तन्निराकुर्वन्नाह-'अर्थ' इत्यादि । कुतो न कुतश्चित् प्रमाणात् विपक्षाद् अक्षणिकाभिमताद् व्यावृत्तिः।
कस्याः ? इत्याह-अर्थक्रियायाः । तया हि सत्त्वं व्याप्तम् , सा ततो व्यावर्त्तमाना तदादाय १५ निवर्तेत ; सैवं तु ततो न निवर्त्तते । कुतः ? इत्याह-क्षणिकपक्षे प्रत्यक्षतानुपपत्तेः।
'अर्थक्रियायाः' इति सम्बन्धः । यदा हि क्षणिकपक्षे क्रमयोगपद्याभ्यां प्रत्यक्षा अर्थक्रिया भवति तदा "कुतश्चित् तयोः" निवृत्तौ सा विनिवर्त्तते । यदा तु अक्षणिकवद् इतरत्रापि न प्रत्यक्षा, तदा कुतः सा तत एव व्यावर्तेत इति भावः ।
उपसंहारमाह-तन्नेत्यादि । यत एवं परस्य [२८४ ख] सदनित्यम् इत्यादि संक्षेप२० करणं प्रसक्तम् तत् तस्मात् न आधिक्यादिदोषम् उद्भाव्य परमार्थवादिनं परः प्रतिवादी विजयते इत्येतद् घटामु पढौकत इति । ___यदि पुनः आधिक्यादिदोषमुद्भाव्य परमार्थवादिनं परो विजयते, नहीदम् (तहीदम्) अपरं दूषणम् इति दर्शयन्नाह-साध्योक्ति [:] साधनम् इत्यादि ।
[साध्योक्तिः साधनं शब्दाविनिवृत्तावसंभवात् । न भावः कृतकत्वं वा असमर्थितमसाधनम् ॥१७॥
न हि एतावता प्रकृतार्थपरिसमाप्तौ किं सत्त्वकृतकत्वादिना ? नन्वेत(१) तदुदाहरणेन । (२) मध्यक्षणभिन्नयोः पूर्वापरयोः । (३) “सा हि साध्यविपर्यये हेतोर्बाधकप्रमाणवृत्तिः। यथा यत्सत् तत्क्षणिकमेव, अक्षणिकत्वे अर्थक्रियाविरोधात् तलक्षणवस्तुत्वं हीयते।"हेतुबि. पृ० ५४ । “स्वभावहेतौ विपर्यये बाधकप्रमाणवृत्त्या तादाम्यसिद्धिनिबन्धनत्वात् ।"-हेतुबि. टी० पृ० ५१ । (४) अर्थक्रियया । (५) अर्थक्रिया। (६) नित्यात् । (७) सत्त्वम् । (6) अर्थक्रिया । (९) नित्यात् । (१०) नित्यात् । (११) क्रमयोगपद्ययोः। (१२) अर्थक्रिया। (१३) अक्षणिकेऽपि । (१४) नित्यादेव।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org