SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ __ श्रीदानोपदेशमाला (गा. ६.) तत्रोद्याने शकटास्ये, न्यग्रोधस्य तरोस्तले । कृताष्टमतपा: कायोत्सर्गमादिजिनोऽतनोत् ॥ ७६७ ॥ गुणस्थानान्यप्रमत्तप्रमुखाणि श्रयन् प्रभुः । शुक्लध्यानसमालीनो, घातिकर्माणि सोऽक्षिणोत् ॥ ७६८ ॥ फाल्गुनासितपक्षस्यैकादशीदिवसोदये । उत्तराषाढास्थे चन्द्रे केवलज्ञानमाप सः ॥ ७६९ ॥ अथासनानां कम्पेन, समग्रा अपि वासवाः । केवलोत्सवमाधातुं, विभोस्तत्र समैयरुः ॥ ७७० ॥ सुरा वायुकुमाराख्या, योजनप्रमितां भुवम् । प्रभोः समवसरणहेतवे सममार्जयन् ॥ ७७१ ॥ महीं मेघकुमाराख्याः सिषिचुर्गन्धिवारिणा । हेमरत्नमणीरम्यां वेदी च व्यन्तरा व्यधुः ॥ ७७२ ॥ तत्राधोमुखवृन्तानि, पञ्चवर्णानि सर्वतः । प्रसूनानि सुगन्धीनि, व्यकिरन् व्यन्तरामराः ॥ ७७३ ।। भवनाधिपतिज्योतिःपतिकल्पनिवासिनः । रूप्यरैरत्नघटितं, वप्रत्रयमसूत्रयन् ॥ ७७४ ॥ तेषामुपरि भवनज्योति:कल्पनिवासिनः । हेमरत्नमणीरम्यां, कपिशीर्षावली व्यधुः ॥ ७७५ ॥ वप्रे वप्रे विशालानि चत्वारि गोपुराण्यभुः । प्रतिवप्रं धूपघट्यो वाप्यश्च स्वर्णपङ्कजाः ॥ ७७६ ।। प्रतिप्रतोलि कलशा ध्वजा वन्दनमालिकाः । पञ्चालिकास्तोरणानि मङ्गलान्यष्टधारुचन् ॥ ७७७ ॥ मध्येद्वितीयवप्रस्य कोण ईशानसंज्ञके । तीर्थंकरनिवासार्थं देवच्छन्दमसूत्रयन् ॥ ७७८ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy