________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम्
पूर्वद्वार्यादिमे वप्रे द्वारस्थौ तस्थतुः सुरौ ।
व्यन्तरौ दक्षिणे द्वारे, ज्योतिष्कौ पश्चिमे पुनः ॥ ७७९ ॥ उदग्द्वारे भवनेशौ हैमे वप्रे च द्वाः स्थिताः ।
जाता जया च विजया जयन्ती चापराजिता ॥ ७८० ॥ युग्मम् ॥ प्रान्त्ये वप्रे प्रतिद्वारं द्वा: स्थास्तस्थुस्तु तुम्बरुः । खट्वाङ्गी नृशिराः स्रग्वी जटामुकुटमण्डिताः ॥ ७८१॥ मध्येसमवसरणं व्यन्तरैश्चैत्यपादपः ।
क्रोशत्रयोन्नतश्चक्रे तस्याधो मणिपीठिकाः ॥ ७८२॥ तस्या ऊर्ध्वं छन्दकं च तदन्तः पूर्वदिग्गतम् । सपादपीठं माणिक्यासनं चक्रुर्नरप्रमम् ॥ ७८३ ॥ श्वेतच्छत्रत्रयं तस्योपरिष्टाद् व्यन्तरा व्यधुः । धारयाञ्चक्रतुस्तत्र यक्षौ चामरयामलम् ॥ ७८४॥ स्वर्णाम्बुजस्थं समवसरणद्वारि भासुरम् । श्रीधर्मचक्रं चक्रुस्ते सहस्रांशुमिवापरम् ॥ ७८५ ॥ चतुर्धा देवकोटीभिः परितः परिवारितः । प्रभाते समवसतु प्रतस्थे नाभिनन्दनः ॥ ७८६ ॥ देवन्यस्तेषु सौवर्णपद्मेषु नवसु क्रमौ । न्यसन् समवसरणं प्राग्द्वारि प्राविशत्प्रभुः ॥ ७८७ ॥ असी गत्यादानयोश्च भ्वादिकोऽयं धातुः । प्रदक्षिणय्य चैत्यद्धुं तीर्थं नत्वा च प्राङ्मुखः । स्वामी सिंहासनं भेजे पूर्वाद्रिं भानुमानिव ॥ ७८८ ॥ प्रतिबिम्बत्रयं चान्यद्दक्षिणादिदिशां त्रये ।
विचक्रुरमरा: स्वामिप्रभावादेव तादृशम् ॥ ७८९ ।। तदैवाविरभून्मूर्ध्नः पृष्ठे भामण्डलं प्रभोः । पूरयंश्च नंभो नादैर्ननाद दिवि दुन्दुभिः ॥ ७९० ॥
Jain Education International
For Personal & Private Use Only
७३
www.jainelibrary.org