SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ७४ श्रीदानोपदेशमाला (गा. ६.) अयमेव जगन्नाथो, मा विकल्पं कृथा हृदि । इतीव ख्यापयल्लोके जिनस्याग्रे बभौ ध्वजः ॥ ७९१ ॥ प्रविश्य प्राच्यद्वारेण, कृत्वा तिस्रः प्रदक्षिणाः । जिनेश्वरं च तीर्थं च, नत्वा प्राकार आदिमे ॥ ७९२ ।। साधूनां व्रतिनीनां च, स्थानं मुक्त्वा तदन्तरे । आग्नेयकोणके तस्थुरुव॑स्थास्त्रिदशस्त्रियः ॥ ७९३ ॥ युग्मम् ॥ तथैवापाच्यद्वारेण प्रविश्य नैर्ऋताभिधे । कोणे तस्थुवनेन्द्रज्योतिष्कव्यन्तराङ्गनाः ॥ ७९४ ॥ प्राग्वत् प्रविश्य प्रातीच्यद्वारेण मरुतो दिशि । भवनपतिज्योतिष्कव्यन्तरा न्यषदन्मुदा ॥ ७९५ ।। तयैव रीत्योदग्द्वारा, प्रविश्यानन्दमेदुराः । ईशानकोणके तस्थुरमर्त्यनरनृस्त्रियः ॥ ७९६ ॥ न तत्राहंयुता नैव भयं न च विरोधता । न शोको नैव विकथा जीवानां जातु जायते ॥ ७९७ ॥ वप्रे द्वितीये तिर्यञ्चस्तिष्ठन्ति स्म प्रमोदतः । प्राकारस्य तृतीयस्याभ्यन्तरे वाहनानि च ॥ ७९८ ॥ अथ सौधर्मकल्पेन्द्रो योजिताञ्जलिकुड्मलः । नत्वा नुत्वा च नाभेयं स्वस्थाने समुपाविशत् ॥ ७९९ ।। इतश्च श्रीविनीतायां नगर्यां भरतेश्वरः । प्रातः प्रणन्तुमायातो मरुदेवां पितामहीम् ॥ ८०० ॥ तां पुत्रविरहाश्रूत्थनीलिम्नालुप्तलोचनाम् । ज्येष्ठपौत्रो नमत्येष इत्युक्त्वाग्र उपाविशत् ॥ ८०१ ।। स्वामिनी मरुदेवापि बाष्पसिक्तमुखाम्बुजा । चिरं जीवेत्याशिषयाभिनन्द्य भरतं जगौ ॥ ८०२ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy