________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् वत्स! त्वमनया राज्यश्रियालिङ्गितविग्रहः । न वेत्सि मम वत्सस्यातुच्छां दुस्थामवस्थितिम् ॥ ८०३ ।। यदेकाकी निराहारः पदचारी निरावृतिः । शीतातपपराभूतः स भ्राम्यति वनं वनात् ॥ ८०४ ॥ तेन मे दूयते चेतो निश्चेतनतया न ते । नित्यं च मम तद्दुःखाद् वर्षलक्षायते क्षपा ॥ ८०५ ॥ श्रुत्वेति मरुदेवाया गिरो निर्वेदमेदुराः । यावत्प्रत्युत्तरेणैनां राट् तोषयितुमिच्छति ॥ ८०६ ॥ तावद् यमकशमको, प्रतीहारनिवेदितौ । समेत्य भरताधीशं, प्रणेमतुरुदञ्जली ॥ ८०७ ॥ यमकस्तमभाषिष्ट, देव! दिष्ट्याद्य वर्धसे । यदुद्याने शकटास्ये, प्रभोरजनि केवलम् ॥ ८०८॥ शमकोऽपि प्रजापालं प्राहोच्चैःस्वरपूर्वकम् । देव! त्वदायुधागारे चक्ररत्नमजायत ॥ ८०९ ।। इतोऽभूत्केवलज्ञानं तातस्येतश्च चक्रकम् । पूर्वं कुर्वेऽर्चनां कस्येति दध्यौ भरतः क्षणम् ॥ ८१० ॥ क्व विश्वाभयदः स्वामी क्व चक्रं जन्तुघातकम् । ध्यात्वेति तातपूजायै स्वानादिक्षदिलापतिः ॥ ८११ ॥ पारितोषिकदानेन तौ विसृज्य विशांपतिः । स्वामिनीमूचिवान् वाचा शोकशल्यविशल्यया ॥ ८१२ ॥ यतस्त्वं मां सदाप्येवमादिक्षः करुणाक्षरम् । अङ्गजो मे यदेकाकी भिक्षाभोज्यस्ति दुःखितः ॥ ८१३ ॥ तन्मातरधुना स्वीयसूनोस्त्रिभुवनप्रभोः । श्रियं विलोकयेत्युक्त्वारोहयत्तां गजं नृपः ॥ ८१४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org