________________
७६
श्रीदानोपदेशमाला (गा. ६.) कुञ्जरस्थैर श्ववारै रथिभिः पत्तिभिर्वृतः । सर्वा स्वामिनं नन्तुं, प्रतस्थे भरतेश्वरः ॥ ८१५ ॥ पुरो व्रजन् ध्वजं राजा दूराद्वीक्ष्याम्बिकामवक् । सुरैः समवसरणं, कृतं पश्य जगद्गुरोः ॥ ८१६ ॥ शृणु मातः! स्ववत्साग्रे, देवैः क्लृप्तं जयध्वनिम् । दुन्दुभेरपि निर्घोषं, क्षुभ्यत्क्षीराब्धिनादभम् ॥ ८१७ ॥ सुरासुरविमानानां, यातायातानि तन्वताम् । अम्बेऽमुं किंकिणीक्वाणं, शृणु श्रवणसौख्यकृत् ॥ ८१८ ॥ हे मातर्देवदेवस्य स्वानुभूतामिमां गिराम् । सुधामिव निपीय त्वं विलोकय निजाङ्गजम् ॥ ८१९ ॥ इति श्रीमरुदेवायाः शृण्वत्या भगवगिरम् । आनन्दाश्रुजलैलृप्तो नीलिमाञ्जनवद् दृशोः ॥ ८२० ॥ स्वसूनोस्तीर्थकृल्लक्ष्मी, पश्यन्ती सा विसिष्मिये । घातिकर्मक्षयाच्चाप, केवलज्ञानमुज्ज्वलम् ॥ ८२१ ।। आरूढैव करिस्कन्धे, मरुदेवा समासदत् । अन्तकृत्केवलज्ञानिभावेन परमं पदम् ॥ ८२२ ॥ अमुष्यामवसर्पिण्यां सिद्धोऽसौ प्रथमोऽजनि । तस्याः कायश्च सत्कृत्य, क्षीराब्धौ चिक्षिपे सुरैः ॥ ८२३ ॥ तदादि मृतकाङ्गार्चा प्रावर्त्यत जनैर्भुवि । यतो महद्भिराचारः कृतः किं केन लुप्यते ॥ ८२४॥ ततोऽसौ मरुदेवात्मज्ञातनिर्वृतिसंगतिः । भरतो हर्षशोकाभ्यां युगपद् व्यानसे क्षणम् ॥ ८२५ ॥ संत्यज्य राज्यचिह्नानि, पादचारी नरेश्वरः । प्राविक्षदुत्तरद्वारा जिनभूषितभूतलम् ॥ ८२६॥ * 'श्रवणसौख्यदम्' इति संगतं भाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org