SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् नानातोद्योल्लसन्नादबधिरीकृतदिग्मुखः । नगरान्निरगान्नाथसनाथं काननं प्रति ॥ ७५५॥ कुलकम् ॥ संत्यज्य राजचिह्नानि तत्र तक्षशिलापतिः । विवेश पदचारेण, वन्दितुं जगदीश्वरम् ॥ ७५६॥ श्री तातं तत्र चापश्यन्नश्रुमिश्रविलोचनः । अधोमुखः स मुषितसर्वस्व इव तस्थिवान् ॥ ७५७॥ दध्यौ च मे धियं हा धिग् यत्तदैव न वन्दितः । तातस्तद्वेद्मि मत्तोऽन्यः कोऽपि नो दुर्धियां पदम् ॥ ७५८ ॥ एवं चिन्ताचितस्वान्तं तं दृष्ट्वा सचिवो जगौ । राजन्नलं विषादेन तापकेन कृशानुवत् ॥ ७५९॥ तत्तस्मिन्निर्ममे ताते कोऽयं ते मोहविप्लवः । तत्पदप्रतिबिम्बे तु दृष्टे साक्षात्स वीक्षितः ॥ ७६०॥ निशम्येति वचस्तस्य सान्तःपुरपरिच्छदः । सुनन्दानन्दनस्तातपदबिम्बान्यवन्दंत ॥ ७६१ ॥ मास्म कोऽपि प्रभोः पादौ पद्भ्यां स्पृशतु जातुचित् । इतीवाशातनाभीत्या, श्रीबाहुबलि भूपतिः ॥ ७६२॥ अष्टयोजनविस्तारमेकयोजनमुच्चकैः । धर्मचक्रं सहस्रारं मणीमयमकारयत् ॥ ७६३ ॥ युग्मम् ॥ तत्राष्टौ दिवसान् यावत्पूजां नवनवोत्सवैः । विधाय वसुधाधीशो, व्यावृत्त्यागान्निजां पुरीम् ॥ ७६४ ॥ यवनादिषु देशेषु, विहरन्नुपसर्गजित् । सहस्रमेकं वर्षाणामतिचक्राम नाभिभूः ॥ ७६५॥ अथायोध्यामहापुर्या, उपपत्तनमुत्तमम् । स्वामी पुरिमतालाख्यमलञ्चक्रेऽरिचक्रजित् ॥ ७६६॥ Jain Education International For Personal & Private Use Only ७१ www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy