________________
७०
श्रीदानोपदेशमाला (गा. ६.) सूर्यप्रायः प्रभुस्तस्य गोसहस्रं च केवलम् । प्रच्युतं पारणेनैतत्संबद्धः सोऽधिकं बभौ ॥ ७४२ ।। इति श्रुत्वाऽखिलो लोकः श्रेयांसं संस्तुवन्मुहुः । स्वं स्वं स्थानं ययौ तस्माद् व्यहरद् भगवानपि ॥ ७४३॥ प्रभोः पारणकस्थानातिक्रमं कोऽपि मा करोत् । इतीव तत्र श्रेयांसः पीठं रत्नमयं व्यधात् ॥ ७४४ ।। श्रेयांसेना~माणं तं दृष्ट्वा लोकास्तमब्रुवन् । किमेतदिति सोप्याख्यदादिकृन्मण्डलं ह्यदः ॥ ७४५ ॥ यत्र यत्राकृत स्वामी, पारणं तत्र तत्र च । जनैः पीठः कृतोऽस्याख्याभूत्क्रमाद्रविमण्डलम् ॥ ७४६ ॥ अन्यदा विहरन् स्वामी बहल्याह्वयमण्डले । सायाह्ने श्रीबाहुबलेः पुरीं तक्षशिलां ययौ ॥ ७४७ ॥ उद्यानेऽस्याः प्रतिमया स्थितं वीक्ष्यर्षभं विभुम् । आगत्य बाहुबलये वनपाला न्यवेदयन् ॥ ७४८ ॥ तच्छ्रुत्वा स मुदा तेभ्यो दानं दत्त्वेत्यचिन्तयत् । यत्प्रातः सपरीवारो वन्दिष्ये सोत्सवं प्रभुम् ॥ ७४९ ॥ सत्स्वस्तिकं पताकाढ्यं लसद्वन्दनमालिकम् ।। सोल्लोचं तोरणोद्भासि भूपः पुरमकारयत् ॥ ७५० ॥ तातस्य दर्शनात्प्रातः करिष्ये स्वं पवित्रितम् । इति चिन्तयतस्तस्य निशा वर्षापमाजनि ॥ ७५१ ॥ विभातायां विभावर्यां प्रपूर्य प्रतिमां प्रभुः । अन्यत्र कुत्रचिद्देशे विजहार समीरवत् ॥ ७५२ ।। अथ प्रातः करिस्कन्धारूढो बाहुबलिर्नृपः । छत्रेण चामराभ्यां च राजमानः किरीटभृत् ॥ ७५३ ॥ पौरान्तःपुरराजन्यैर्गजवाजिरथस्थितैः । परीतः परितो भट्टथट्टैः कृतजयारवः ॥ ७५४॥ १ तु /
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org