SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् प्रभुपारणकास्वप्नसंपाताभ्यां चमत्कृताः । गृहमेत्य नृपाः पौराश्चेति श्रेयांसमस्तुवन् ॥ ७३१॥ प्रभुपारणकास्वप्नसंपाताभ्याम् - परमात्मपारणदेवागमनाभ्याम् । (अस्वप्नः - देवः ) धन्योऽसि कृतपुण्योऽसि श्री श्रेयांसनरोत्तरः । यदिक्षुरसदानेन पारणं कारितः प्रभोः ॥ ७३२ ॥ ददतां नस्तुरङ्गेभकन्यारत्नफलादिकम् । न गृह्णाति प्रभुस्तत्र कुमार ! भण कारणम् ॥ ७३३ ॥ सोऽप्याह निर्ममः स्वामी किमेभिः कुरुतेतराम् । गृह्णाति केवलं धर्माङ्गपुष्ट्यै प्रासुकाशनम् ॥ ७३४॥ तर्ह्येतत्कथमज्ञायि त्वयेति गदितो नृभिः । स प्राह दर्शनाद् भर्तुर्ममाभूत्प्राग्भवस्मृतिः ॥ ७३५॥ अमुना स्वामिना साकमभ्रमञ्जनुरष्टकम् । जन्मतोऽस्माच्च तार्तीये, भवे क्षेत्रे विदेहके ॥ ७३६ ॥ पितुः श्रीवज्रसेनस्य, जिनस्य चरणान्तिके । स्वाम्येष जगृहे दीक्षामहमप्यस्य पृष्ठतः ॥ ७३७ ॥ एतज्जन्मस्मृतेर्दानविधिरज्ञायि हे नराः ! । तथा शृणुत स्वप्नानां त्रयाणामप्यदः फलम् ॥ ७३८॥ यन्मया श्यामलो मेरुर्दृष्टः सिक्तश्च वारिभिः । स हि स्वामी तपः क्षामोऽभादिक्षुरसपारणात् ॥ ७३९ ॥ यो राज्ञारातिभी रुद्धो योद्धो दृष्टः स तु प्रभुः । पारसाहाय्याज्जगायान्तरवैरिणः ॥ ७४०॥ सुबुद्धिनापि यद् दृष्टं गोसहस्रं वेश्च्युतम् । मया तदाहितं तत्र ततोऽभात्तपनाधिकम् ॥ ७४१॥ १. मत्पारण० P. 1 Jain Education International For Personal & Private Use Only ६९ www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy