________________
६८
श्रीदानोपदेशमाला (गा. ६.) ज्ञातवांश्चेति यत्पूर्वविदेहे चक्रयभूदयम् । वज्रनाभाभिधोऽस्याहं सुयशाः सारथिः पुनः ॥ ७१९ ॥ स्वपितुर्वज्रसेनस्यार्हतः पार्श्व उपात्तवान् । वज्रनाभः परिव्रज्यां तत्पृष्ठेऽहमपि द्रुतम् ॥ ७२० ॥ ततो विपद्य सर्वार्थे भुक्त्वा च त्रैदशं सुखम् । जीवः श्रीवज्रनाभस्याभून्मेऽसौ प्रपितामहः ॥ ७२१ ।। अनुग्रहीतुं मामेष मद्गृहं समुपाययौ । ध्यायतोऽस्येति कोऽपीक्षुरसकुम्भानढौकयत् ॥ ७२२ ।। स तु पूर्वभवाभ्यासात्कल्प्याकल्प्यविधिं विदन् । तातोपादीयतामिक्षुरस इत्यवदद्विभुम् ॥ ७२३ ॥ कल्प्यं विदित्वा नाथोऽपि पाणिपात्रमधारयत् । तत्र सोऽपीक्षुनिर्यासं घटानुत्पाट्य चाक्षिपत् ॥ ७२४॥ इक्षुनिर्यासम् - इक्षुरसम् । प्रभोः पाणौ प्रसर्पन्तीक्षुरसश्रेणिरुच्चकैः । श्रेयांसाऽगण्यपुण्यस्य स्पर्धयेवाभ्यवर्धत ॥ ७२५ ॥ तेन पारणकं कुर्वन्नादिमं नाभिनन्दनः । त्रैलोक्यजनतानन्दकन्दं समुदलासयत् ॥ ७२६ ॥ तदा जगत्कृतानन्दा नेदुर्दुन्दुभयो दिवि । रत्नप्रसूनगन्धाम्बुवृष्टयश्चाभवद् भुवि ॥ ७२७ ॥ चेलोत्क्षेपः कृतोऽमत्र्यैः प्रभुपारणकक्षणे । इति पञ्चापि दिव्यानि, जज्ञिरे पौत्रमन्दिरे ॥ ७२८॥ वैशाखस्य तृतीयस्यां, शुक्लायां दानमक्षयम् । बभूवातो जने ख्याता, नाम्नाक्षयतृतीयिका ॥ ७२९ ।। यथादौ स्वामिना सर्वे व्यवहारा: प्रकाशिताः । तथैव दानधर्मोऽयं श्रेयांसेन प्रकाशितः ॥ ७३० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org