________________
६७
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् आहारमन्तरेणाङ्गं न निर्वाहं क्वचिद् व्रजेत् । अतोऽनागारिभिर्दोषमुक्तं ग्राह्यं सदाशनम् ॥ ७०७ ॥ यद्याहारमहं नैव ग्रहीष्याम्यधुना तदा । भाविनो मुनयः कच्छादिवत् त्यक्ष्यन्ति संयमम् ॥ ७०८।। विचार्येति हृदि स्वामी, भिक्षादानोद्यतस्ततः । पुरं गजपुरं प्राप कुरुदेशविभूषणम् ॥ ७०९ ।। अत्र बाहुबलेः पौत्रः, सोमप्रभम्रपाङ्गभूः । नाम्ना कुमारः श्रेयांसस्तदैवं स्वप्नमैक्षत ॥ ७१० ॥ समन्ताच्छ्यामलच्छायं हिरण्यधरणीधरम् । पयस्कुम्भैः क्षालयित्वाधिकं दीपितवानहम् ॥ ७११ ॥ सुबुद्धिश्रेष्ठिनादर्शि, गोसहस्रं रवेश्च्युतम् । श्रेयांसेनाहितं तस्मिंस्तस्मादर्कोऽधिकद्युतिः ॥ ७१२ ॥ राज्ञा सोमप्रभेणापि, दृष्ट एको महाभटः । श्रीश्रेयांसस्य साहाय्याज्जयमापारिवेष्टितः ॥ ७१३ ॥ ते त्रयोऽपि सभामेत्य मिथः स्वप्नानवीवदन् ।। तेषां चार्थमजानाना जग्मुर्वेश्म निजं निजम् ॥ ७१४ ।। अथ भिक्षाकृते स्वामी, प्रविशन् हस्तिनापुरम् । निरीक्ष्य नागरैश्चक्रे, सोपदैस्तुमुलो ध्वनिः ॥ ७१५ ॥ कोऽयं कोलाहल इति द्वास्थं श्रेयांस ऊचिवान् । सोऽपि ज्ञात्वाब्रवीन्नाभितनयागमकारणम् ॥ ७१६ ॥ हर्षोत्फुल्लेक्षणः सोऽपि श्रेयांसो जिनपुङ्गवम् । आयान्तं वीक्ष्य वेगेन गत्वानंसीत् पदातिवत् ॥ ७१७ ॥ स ऊर्वीभूय नाभेयमुखाम्भोजं विलोकयन् । ईदृग्दृष्टो मया क्वापीत्यस्मरत्पूर्वजन्मनः ॥ ७१८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org