________________
६६
श्रीदानोपदेशमाला (गा. ६.) तौ चाहतुस्तं वारुण्यां, यधुदेति दिनेश्वरः । तथापि वृषभं मुक्त्वा , नान्यं सेवामहे प्रभुम् ॥ ६९४ ॥ भरतादिमहीपालाः, पालयन्तु सुखं प्रजाः । किं तैर्यदेष स्वामी नौ दत्ते तेन प्रयोजनम् ॥ ६९५ ॥ तदुक्तिमुदितोऽहीन्द्रोऽप्यवोचत्तौ यथा युवाम् । प्रभो त्यौ तथैवाहमपि पातालपालकः ॥ ६९६ ॥ उपास्त्यामुष्य नाथस्य, किं किं न प्राप्यते जनैः । अतः सेवाफलं विद्याधरत्वं वितरामि वाम् ॥ ६९७ ॥ एवमानन्द्य गौर्याद्या विद्याः सोऽदान्मुदा तयोः । पाठसिद्धा अष्टचत्वारिंशद्दशशतैर्मिताः ॥ ६९८ ॥ आदिशच्च युवां गत्वा, वैताढ्य श्रेणियामले । पुराणि स्थापयित्वाशु, भुञ्जाथां राज्यसंपदम् ॥ ६९९ ॥ प्रभुं प्रणम्य कृत्वा च, विमानं पुष्पकाभिधम् । भुजगस्वामिना साकं, तावारुह्य प्रचेलतुः ॥ ७०० ॥ एतत्स्वरूपं जल्पित्वा, पित्रोः श्रीभरतस्य च । स्वकुटुम्बं गृहीत्वा तौ, श्रीवैताढ्यगिरिं गतौ ॥ ७०१ ॥ तेन तद्दक्षिणश्रेण्यां पञ्चाशत्पुरशेखरे । श्रीरथनूपुरचक्रवाले राजा नमिः कृतः ॥ ७०२ ।। उत्तरस्यां तु तच्छ्रेण्यां, षष्टिपत्तनमुख्यके । विदधे विनमी राजा पुरे गगनवल्लभे ॥ ७०३ ॥ एवं राज्यं तयोर्दत्त्वा, व्यवस्था प्रविधाय च । न्यायमार्ग दर्शयित्वा, धरणेन्द्रस्तिरोदधे ॥ ७०४ ।। शाश्वतप्रतिमावृन्दं मूर्तिं च वृषभप्रभोः । पूजयन्तौ सुखं राज्यं चक्राते तो सुरेन्द्रवत् ॥ ७०५ ।। अथार्यानार्यदेशेषु मौनेन विहरन् प्रभुः । संवत्सरं निराहारश्चिन्तयामास चेतसि ॥ ७०६ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org