________________
६५
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् न ब्रूतेऽस्मान्न च। प्रेमपरयापि दृशेक्षते । उपेक्षते प्रभुस्तत्किं कुर्मो ही क्षुबुभुक्षिताः ॥ ६८१ ॥ किं वा श्रयामो भरतमुज्झित्वा व्रतमादृतम् । नैवं हि युज्यते तस्य दर्शयामः कथं मुखम् ॥ ६८२ ।। एवमालोच्य सर्वेऽपि कच्छाद्या जाह्नवीतटे । वनं भेजुरभूवंश्च, तापसास्ते फलाशिनः ॥ ६८३ ।। अथ कच्छमहाकच्छसुतौ स्वामिनिदेशतः । कार्यान्तरं गतौ तस्याप्यायातौ तत्र कानने ॥ ६८४ ॥ निजी नमिविनम्याख्यौ पितरौ स्मैक्ष्य पृच्छतः । अवस्था युवयोः केयमित्युक्तावूचतुश्च तौ ॥ ६८५ ॥ वत्सौ! शृणुतमस्माकं प्रभुः श्रीनाभिनन्दनः । भरतादितनूजानां राज्यं दत्त्वाग्रहीद् व्रतम् ॥ ६८६ ।। अस्माभिरप्यनुस्वामि, गृहीत्वा दुष्करं व्रतम् । तत्पालनाक्षमैर्गङ्गावने वासो व्यधीयत ॥ ६८७॥ श्रुत्वेति नमिविनमी प्रस्थितौ राज्यलिप्सया । कायोत्सर्गस्थितं नाथं, नत्वा तावेवमूचतुः ॥ ६८८ ॥ भरतादिस्वपुत्रेभ्यो, विभज्य प्रददे मही । त्वया यथा तथा नाथ! दीयतामावयोरपि ॥ ६८९ ॥ विज्ञप्तोऽपि विभुटूंनी यद्यप्यावां न भाषते । तथापि खड्गपाणिभ्यामावाभ्यां सेव्य एव सः ॥ ६९० ॥ अहर्निशं जिनेशस्य सेवां कुर्वाणयोस्तयोः । धरणेन्द्रोऽन्यदा नाभितनयं नन्तुमागतः ॥ ६९१॥ सेवमानौ विभुं याचमानौ राज्यश्रियं च तौ । विलोक्य पन्नगस्वामी साश्चर्यमिदमभ्यधात् ॥ ६९२॥ नि:संगो निर्ममः स्वामी, कुतो राज्यं प्रयच्छति । अतस्तदर्थिनौ यातां, भवन्तौ भरतेश्वरम् ॥ ६९३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org