________________
६४
श्रीदानोपदेशमाला (गा. ६.)
स्वामिंस्तेऽसयुगे स्वर्णवर्णे श्यामलकुन्तलाः । मेरुशृङ्गस्थदूर्वालीलीलामाकलयन्त्यलम् ॥ ६६८ ॥ तत्प्रसद्य जगन्नाथ! स्थापयैतान् यथास्थितान् । तथैव तद्वचः सोऽपि चक्रे प्रार्थकवत्सलः ॥ ६६९॥ .: शक्रेण तेषु क्षीराब्धौ क्षिप्तेष्वथ जगद्विभुः । कृतषष्ठतपाः क्लृप्तसर्वसिद्धनमस्कृतिः ॥ ६७० ॥ सावद्ययोगं प्रत्याख्याम्यहं सर्वमिति ब्रुवन् ।
समक्षं सर्वलोकानां स्वीचक्रे चरणश्रियम् ॥ ६७१॥ युग्मम् ॥ दीक्षाकल्याणके जाते जन्तुजातसुखावहे ।
श्रीमनः पर्यवज्ञानं बभूव भुवनप्रभोः ॥ ६७२ ॥ स्वैः स्वैर्वग्यैर्वार्यमाणा अपि कच्छादयो नृपाः । दीक्षां सहस्राश्चत्वारः स्वीचक्रुः स्वामिना समम् ॥ ६७३ ॥ नत्वा नुत्वा च नाभेयमिन्द्राः स्वां स्वां दिवं ययुः । कथंचिद् भरतबाहुबल्याद्याश्च निजं गृहम् ॥ ६७४॥ जिनः कच्छमहाकच्छैः कलभैरिव हस्तिराट् । अनुयाततमो मौनी विजहार वसुन्धराम् ॥ ६७५ ॥ भिक्षां प्राप न स क्वापि पारणस्यापि वासरे । तदैकान्तर्जवो लोका भिक्षां दातुं न जानते ॥ ६७६ ॥ कुञ्जरान् वाजिराजांश्च कन्या वस्त्राणि सन्मणीः उपदीचक्रिरे लोकास्तानि नादत्त च प्रभुः ॥ ६७७॥ अलाभेनापि भिक्षाया, अदीने भ्रमति प्रभौ । यताः कच्छमहाकच्छादय एवमचिन्तयन् ॥ ६७८ ॥ क्वायं क्षुदजितः स्वामी क्व वयं धान्यकीटकाः । पिपासाविजयी क्वायं, क्व वयं वारिदर्दुराः ॥ ६७९ ॥ क्वायं शीतातपाजेयः क्व पुनस्तज्जिता वयम् । क्वैषोऽन्तरारिविजयी क्व वा तत्तर्जिता वयम् ॥ ६८० ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org