SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ६२ प्रभुरप्याह हे वत्स ! यद्यादेशकरोऽसि मे तदा मुदा मया दत्तां, परिपालय मेदिनीम् ॥ ६४४॥ पितुराज्ञामनुल्लङ्घ्यां विज्ञाय वृषभाङ्गभूः । पुष्पमालामिव शिरः शेखरीकृतवानिमाम् ॥ ६४५ ॥ ततः प्रणम्य पादाब्जं, तातस्य भरतेश्वरः । पित्र्यं सिंहासनमलञ्चक्रे शक्र इवापरः ॥ ६४६॥ सामन्तमन्त्र्यनीकेन्द्रैः प्रभोरिव सुरेश्वरैः । चक्रेऽभिषेकमहिमा भरतस्य तदा मुदा ॥ ६४७ ॥ सद्वृत्तेनातपत्रेण, चामराभ्यां विभूषणैः । वासोभिश्च रराजासौ, राजा श्रीभरतेश्वरः ॥ ६४८ ॥ बाहुबल्यादिपुत्रेभ्योऽपरेभ्योऽपि च नाभिभूः । ददौ विभज्य विषयान्महेच्छा हि समाशयाः ॥ ६४९॥ दातुमारब्धवान् दानं वार्षिकं वृषभप्रभुः । कल्पवृक्ष इव स्वेच्छानुरूपफलदं नृणाम् ॥ ६५० ॥ यो यद्यद् याचते तत्तत्तस्य पूरयते प्रभुः । चतुष्पथादिस्थानेषूद्घोषणामित्यकारयत् ॥ ६५१ ॥ चिरलेभ्यों निरीशेभ्यो निधिभ्यो धनदो धनम् । आदाय वासवादेशाद्विभोर्गेहमपूपुरत् ॥ ६५२ ॥ स्वामिना दीयते हेम्नः कोटिरेका दिने दिने । अष्टलक्षयुता प्रातराशं दिनकरोदयात् ॥ ६५३ ॥ वर्षेकेण सुवर्णस्य नाथः कोटीशतत्रयम् । अष्टाशीतिं च कोटीनां लक्षाशीतिं च दत्तवान् ॥ ६५४॥ अथ वार्षिकदानान्ते सुरेन्द्राः कम्पितासनाः । भर्तुर्दीक्षामहं कर्तुमयोध्यायां समागमन् ॥ ६५५ ॥ श्रीदानोपदेशमाला (गा. ६.) Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy