________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम्
अथ ज्ञानेन विज्ञातानुभूतसुरभूसुखः । स्वाम्येतत्क्रीडनं तुच्छमिव मत्वेत्यचिन्तयत् ॥ ६३२ ॥ अपारे भवकान्तारे, सन्मार्गस्खलिता जना: 1
हहा भ्रमन्त्यमी मूढमतयः पथिका इव ॥ ६३३॥ अमी रागद्वेषमोहाः स्ववशीकृत्य देहिनम् । अकृत्यसागरे दूरं पातयन्ति हहा कथम् ॥ ६३४॥ कषाययामिका यावज्जाग्रतीह समीपगाः । तावत्संसारकारायाः कुतो मोक्षो भवेन्नृणाम् ॥ ६३५ ॥ एवं विरक्तचित्तोऽभूद्यावन्नाभिनृपाङ्गभूः । तावल्लोकान्तिका देवा, भगवन्तमुपागताः ॥ ६३६॥ कृत्वा पद्मदलाकारं ते मूर्ध्नि करसंपुटम् । मरुदेवासुतस्यांही विनत्यैवं व्यजिज्ञपन् ॥ ६३७ ॥ यथा नाथ! त्वया लोकव्यवहारः प्रकाशितः । तथा प्रवर्त्तयेदानीं धर्मतीर्थं जगद्धितम् ॥ ६३८ ॥ इति विज्ञप्तिकां कृत्वा ब्रह्मलोगमगुः सुराः । नाथोऽपि तस्मिन्नुद्याने, तां निशामत्यवाहयत् ॥ ६३९॥ ततः प्रातर्गृहे गत्वा, सामन्तान्निखिलानपि । भरतादींस्तनूजांश्च, शतमाजूहवद्विभुः ॥ ६४० ॥ राज्यमादत्स्व नो वत्स ! बभाषे भरतं प्रभुः । संप्रति व्रतसाम्राज्यं, स्वीकरिष्यामहे वयम् ॥ ६४१॥ श्रुत्वेति स्वामिनो वाक्यं स्थित्वाधोवदनः क्षणम् । भरतो भूतलन्यस्तमस्तकस्तातमब्रवीत् ॥ ६४२ ॥ एकैव तात! ते सेवा राज्यकोटिसमा मम । भवतादन्वहं तूर्णं, पूर्णं राज्यश्रियानया ॥ ६४३॥
Jain Education International
For Personal & Private Use Only
६१
www.jainelibrary.org