SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ६० श्रीदानोपदेशमाला (गा. ६.) त्रिषष्टिपूर्वलक्षेषु, व्यतिक्रान्तेषु राज्यतः । प्रभुर्जनानुरोधेन, मधावुद्यानमासदत् ॥ ६२१॥ माकन्दमञ्जरीस्वादमधुरैर्मधुपारवैः ।। मधुश्रीः कुशलोदन्तपृच्छिकेवाभवद्विभोः ॥ ६२२॥ कोकिला पञ्चमारावैर्वल्लीपल्लवहस्तकैः । मलयानिलशैलूषः प्रवृत्त इव नर्तितुम् ॥ ६२३ ।। शैलूषः-नटः । रणन्मञ्जीरचरणप्रहारेण मृगेक्षणाः । अशोकं ताडयाञ्चक्रुः कृतागसमिव प्रियम् ॥ ६२४ ॥ पुष्पाग्रस्थालिसंरावव्याजतो वादयन्निव । स्मरस्य विश्वविजयकाहलां पाटलांहिपः ॥ ६२५ ॥ परमध्यानमग्नानां, मुनीनामपि मानसात् । धृतेः फुल्लसुमामोदैश्चम्पको लुम्पकोऽजनि ॥ ६२६ ।। अस्मासु विश्वजैत्रासु, किं स्मरस्य शरैरिमैः । पौष्परितीव कोपात्तान्यवाचिन्वन् मृगीदृशः ॥ ६२७॥ प्रतिप्रतीकं पुष्पाणां, भूषया कामिनो बभुः । जयभङ्गभयाद् बाणैरनङ्गेनाहता इव ॥ ६२८॥ प्रतिप्रतीकम्=प्रत्येकावयम् । विडम्बितेन्द्रकोदण्डां, पञ्चवर्णसुमस्रजम् । संदृभ्य कश्चनाप्युच्चैस्तोषयामास वल्लभाम् ॥ ६२९ ॥ प्रियया प्रेषितं कोऽपि, पाणिभ्यां पुष्पकन्दुकम् । प्रतीयेष मुदा स्वामिप्रसादमिव सेवकः ॥ ६३०॥ एवं सलीलं खेलत्सु सत्सु लोकेषु नाभिभूः । इति दध्यौ किमीक्षा क्रीडान्यत्रापि विद्यते ॥ ६३१ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy