________________
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् ऋजवस्ते तथा चक्रुर्दग्धान्यन्नानि चाग्निना । समेत्य कथयाञ्चक्रुरेवं प्रभुपुरः पुनः ॥ ६०९॥ विभोऽस्मभ्यमयं किञ्चिन्न दत्तेऽग्निर्बुभुक्षितः । उदरम्भरिवत् सर्वमपि क्षिप्तं प्रभक्षति ॥ ६१० ॥ तदा गजाधिरूढः सन्, विभुस्तेभ्योऽथ मृत्तिकाम् । आनाय्य करिणः कुम्भे हत्वा भाण्डमसूत्रयत् ॥ ६११ ॥ नाथस्तानाह पात्राणि, कृत्वान्यान्यपि पावके । निवेश्य पचतान्नानि ततो भक्षत सुस्थिताः! ॥ ६१२॥ तथैव ते विदधिरे स्वाम्याज्ञां सरलाशयाः। तदादि च विभुः कुम्भकाराणां शिल्पमादिमम् ॥ ६१३॥ तक्षायस्कारविज्ञानं द्वितीयं वेश्मनां कृते । तार्तीयं चित्रकृच्छिल्पं, जगद्विस्मयहेतवे ॥ ६१४ ॥ तुर्यं कुविन्दशिल्पं च जनाच्छादनकर्मणा । पञ्चमं नापितं शिल्पं, कचाद्यतिच्छिदेऽकरोत् ॥ ६१५ ॥ कुलकम् ॥ एवं विंशतिभेदं तत्प्रत्येकं शिल्पपञ्चकम् । शतसंख्यामगायिष्ट, कृष्याद्यन्यदपि स्फुटम् ॥ ६१६॥ भरतं पाठयामास, द्वासप्ततिकलाः प्रभुः । लक्षणं बाहुबलिनं, गजाश्वस्त्रीविशां पुनः ॥ ६१७॥ ब्राह्मीमष्टादश लिपी: पाणिना दक्षिणेन सः । लेखयामास वामेन गणितं सुन्दरीमपि ॥ ६१८॥ व्यापारानखिलानीशः स सावधान् विदन्नपि । लोकानुकम्पयाऽदिक्षन्महान्तो ह्युपकारिणः ॥ ६१९ ॥ स्वाम्युग्रभोजराजन्यक्षत्रभेदैश्चतुर्विधान् । वंशान् प्रकटयामास चतुर्धा नीतिवम॑ च ॥ ६२० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org