________________
श्रीदानोपदेशमाला (गा. ६.) अहो सुविनया लोकास्तद्विनीतां पुरीं प्रभोः । सम्यक्कारयितुं श्रीदमादिश्येन्द्रोऽगमद् दिवम् ॥ ५९६ ॥ विस्तारायामतः सोऽपि नवद्वादशयोजनीम् । विनीतां नगरीं चक्रेऽयोध्येत्यपरनामिकाम् ॥ ५९७ ॥ सप्राकारां महागेहां रम्यारामां सदीर्घिकाम् । धान्यरत्नहिरण्याढ्यां, तां कृत्वा धनदो ययौ ॥ ५९८॥ युग्मम् ॥ जन्मतः पूर्वलक्षाणां, गतायां विंशतौ तदा । तस्यां पुर्यामभूद्राजा, ऋषभो रक्षितुं प्रजाः ॥ ५९९ ॥ गजेन्द्रान् भद्रजातीयांस्तुरगान् वायुवेगिनः । रथान् महाप्रथान् पत्तीन्, विक्रमाक्रान्तभूतलान् ॥ ६०० ॥ रक्षादक्षांस्तथारक्षान् सामन्तान् दिग्जयोद्यतान् । संगृह्य नाभिभू राज्यं कृतवान् सुस्थिरं चिरम् ॥ ६०१॥ युग्मम्॥ गोधूमशालिमुगाद्या, औषध्यस्तृणवत्स्वयम् । समुत्पेदुश्चखादुश्च, युग्मिनोऽथाविपक्त्रिमाः ॥ ६०२ ॥ ताभिर्जातोदराबाधैस्तैरुक्तः स्वाम्यभाषत । ता वित्वच्य करैर्नीरैस्तिमित्वा चात्त सुस्थिताः! ॥ ६०३ ॥ तैस्तत्तथा प्रकुर्वाणैरपि जाठरजां व्यथाम् । विज्ञप्तस्त्रिजगन्नाथः, पुनस्तानूचिवानिति ॥ ६०४॥ पूर्वोक्तयुक्तियुक्तास्ताः क्षिप्त्वा मुष्ट्यन्तरे ततः । कक्षामध्यमवस्थाप्य भक्षयन्तु यथारुचि ॥ ६०५ ॥ तथाप्यजीर्यदन्नेषु व्यथाशालिषु नृष्वथ । वने मिथो वंशघर्षात्कृशानुरुदपद्यत ॥ ६०६॥ रत्नभ्रमात् क्षिप्तहस्तास्तत्र दग्धा जडाशयाः । दैत्यः कोऽपि वने स्वामिन्नुत्पन्न इति ते जगुः ॥ ६०७॥ प्रभुः प्राहाग्निरुत्तस्थावरुक्षास्निग्धकालतः । तद् गत्वामुष्य मध्येऽन्नं, क्षिप्त्वा पक्त्वा च खादत ॥ ६०८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org