________________
५७
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् रममाणैर्महौजस्कैरपत्यैः परिवारितः । रराज ऋषभस्वामी, तारकैरिव चन्द्रमाः ॥ ५८४ ॥ अथ कालस्य दोषेण, प्रणष्टं सुरभूरुहैः । युगलानामभूवंश्च कषायाः कलहादयः ॥ ५८५॥ नीतित्रयममन्वाना युग्मिनो नाभिनन्दनम् । एत्यासमञ्जसं जायमानं सर्वं व्यजिज्ञपन् ॥ ५८६॥ स्वाम्याह युज्यते राजा, यो युष्मान् स्थापयेत् पथि । तेऽप्यूचुस्त्वां विना नाथ! नान्यो योग्यो विलोक्यते ॥ ५८७॥ . यद्येवं तर्हि याचध्वं, श्रीनाभेः स्वस्य भूपतिम् । इत्यादिष्टाः कुलकृतं, तेऽप्येवं हि व्यजिज्ञपन् ॥ ५८८ ॥ श्रीनाभिरपि तानूचे हंहो युगलधर्मिणः! । युष्माकमृषभो राजा, भवतु न्यायपारगः ॥ ५८९ ॥ नाभेरादेशमासाद्य, सानन्दा युग्मिनस्ततः । प्रभो राज्याभिषेकाय, जलाहृतिकृते गताः ॥ ५९० ॥ तदोत्पन्नासनाकम्पो, ज्ञानेनावधिना विभोः । राज्याभिषेकसमयं, ज्ञात्वा तत्राययौ हरिः ॥ ५९१ ॥ तीर्थोदकैः सुरानीतैर्जम्भारिर्वृषभप्रभोः । राज्याभिषेकमकरोत्सामन्ता इव चक्रिणः ॥ ५९२ ॥ जम्भारि:-शक्रः । किरीटाद्यैरलङ्कारैः, सर्वाङ्ग जगदीश्वरम् । भूषयित्वा पुरस्तस्थौ, प्रतीहार इव धुपः ॥ ५९३ ॥ धुप:-शक्रः । युग्मिनोऽपि गृहीत्वाम्भः, पद्मिनीपत्रसंपुटैः । समेत्यालङ्कृतं नाथ, विलोक्येति व्यचिन्तयन् ॥ ५९४ ॥ स्वामिनो दिव्यनेपथ्यभृतो मूर्ध्नि न युज्यते । जलं क्षेप्तुमतस्तत्ते चिक्षिपुः पदपद्मयोः ॥ ५९५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org