________________
५६
श्रीदानोपदेशमाला (गा. ६.) ततः प्रभोर्विवाहाय, मण्डपादिक्रियां हरिः । सुरैरकारयत्स्वामिकृत्ये भृत्या हि सोद्यमाः ॥ ५७२ ॥ वाद्यमानैर्महातोद्यैर्देवक्तृप्तैर्जयारवैः । अप्सरोभिर्नृत्यपूर्वं गीयमानैश्च मङ्गलैः ॥ ५७३ ॥ सुमङ्गलासुनन्दाभ्यां सह पाणिग्रहोत्सवम् । सुरेन्द्रः कारयाञ्चक्रे महा त्रिजगत्पतेः ॥ ५७४ ॥ एवं स्वामिकृतोद्वाहविधिः स्वर्गं ययौ हरिः । ततः प्रभृति लोकेषु, जाता वैवाहिकी स्थितिः ॥ ५७५ ।। ताभ्यां समं प्रभो गान्, भुञ्जानस्य दिवानिशम् । किञ्चिन्न्यूनतमा षटकपूर्वलक्षी व्यतीयुषी ॥ ५७६ ॥ अथ सर्वार्थतश्च्युत्वा, जीवौ श्रीबाहुपीठयोः । देवीसुमङ्गलाकुक्षौ, युग्मत्वेनावतेरतुः ॥ ५७७॥ तस्मादेव सुनन्दाया, अपि कुक्षौ तदा च्युतौ । श्रीसुबाहुमहापीठजीवौ ताववतेरतुः ॥ ५७८ ॥ ततः सुमङ्गलादेवी महास्वप्नांश्चतुर्दश । निरीक्ष्य मरुदेवीवद् वृषभाय न्यवेदयत् ॥ ५७९ ।। ज्ञानवान् भगवानाह प्रिये! तव तनूभवः । षटखण्डभरताधीशश्चक्रवर्ती भविष्यति ॥ ५८० ॥ श्रुत्वेति मुदिता पूर्णमासैर्यामद्वये निशः । सुषुवे भरतबाहयौ पुत्रपुत्र्यौ सुमङ्गला ॥ ५८१ ॥ श्रीबाहुबलिसुन्दर्यावपत्ये सुषुवे मुदा । सुनन्दा नन्दनोर्वीव, सुरद्रुसुरवीरुधौ ॥ ५८२ ॥ पुनः सुमङ्गलैकोनपञ्चाशत्प्रमितानि सा । महौजसां तनूजानां, युग्मानि सुषुवे क्रमात् ॥ ५८३ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org