SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ५५ सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् स्वर्गलोकात् समागत्य वृन्दारककुमारकाः । क्रीडाभिरतिरम्याभिः प्रभुमक्रीडयंस्तमाम् ॥ ५५९ ॥ सुराहतोत्तरकुरुकल्पद्रुमफलावलीम् । स स्वाम्यास्वादयामास क्षीरं च क्षीरनीरधेः ॥ ५६० ।। बाल्यावस्थामतिक्रम्य पूर्वाह्न भानुमानिव । भगवान् यौवनं प्राप स्त्रीनेत्राम्भोजनन्दनम् ॥ ५६१ ॥ अन्यदैकस्य युग्मस्य, बालक्रीडां वितन्वतः । तालवृक्षात्पतित्वाधः फलेनामारि पूरुषः ॥ ५६२॥ तस्मिन्नल्पकषायत्वात् स्वर्गते युग्मिनी कनी । यूथभ्रष्टा मृगीवासौ तस्थौ तरलितेक्षणा ॥ ५६३ ॥ तां च तादृग्विधां वीक्ष्य पितृयुग्मं निजान्तिके । अस्थापयदमुष्याश्च सुनन्देत्यभिधां व्यधात् ॥ ५६४ ॥ दिनैः कतिपयैस्तस्याः पितरौ पञ्चतां गतौ । किंकर्तव्यजडा सापि बभ्रामैकाकिनी वने ॥ ५६५ ॥ बालां बालेन्दुभालां तां भ्रमन्तीमेकिकां वने । विलोक्य युग्मिनो निन्युः श्रीनाभिनृपसंनिधौ ॥ ५६६ ॥ एषा ऋषभदेवस्य प्रेयसी भवतादिति । नाभिराजाङ्ग्यकार्षीत्तां शृङ्गाररससारणीम् ॥ ५६७ ॥ अथ ज्ञानेन विज्ञाय, विवाहसमयं विभोः । दिक्स्पतिर्दिवोऽभ्येत्य तं नत्वेति व्यजिज्ञपत् ॥ ५६८॥ यद्यपि त्वं प्रभो! भोगविमुखोऽसि तथापि हि । लोकानां व्यवहाराय कुरु पाणिग्रहोत्सवम् ॥ ५६९ ॥ सुमङ्गलां सुनन्दां च, कन्ये भुवनभूषणे । धर्मपत्नीयितुं नाथ! प्रस्तावस्तव वर्तते ॥ ५७० ॥ प्रभुः कर्मावधिज्ञानाज्ज्ञात्वा भोगफलं निजम् । त्र्यशीतिपूर्वलक्षाणि शक्रवाक्यममन्यत ॥ ५७१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy