________________
५४
श्रीदानोपदेशमाला (गा. ६.) शक्रः संक्रमयाञ्चक्रे, स्वामिनोऽङ्गष्ठकेऽमृतम् । अस्तन्यपायिनोऽर्हन्तस्तत्पिबन्ति क्षुधोदयात् ॥ ५४७ ॥ पञ्च देवाङ्गना धात्रीः, प्रभोः पालनहेतवे । अवस्थाप्य स्वयं शक्रो, द्वीपे नन्दीश्वरे ययौ ॥ ५४८ ॥ मेरुतोऽन्येऽपि देवेन्द्रास्तत्रागत्य वितेनिरे । अष्टाह्निकामहै: पूजां चैत्येषु शाश्वतार्हताम् ॥ ५४९ ।। ततः सुरेन्द्राः सर्वेऽपि स्वं स्वं स्थानं मुदा ययुः । मरुदेवापि वृत्तान्तं, नैशं श्रीनाभये जगौ ॥ ५५० ॥ उरुदेशे जगद्भर्तुर्वृषभं वीक्ष्य लाञ्छनम् । जनकाभ्यां श्रीऋषभ इति नाम विनिर्ममे ॥ ५५१॥ तदार्हत्सहजातायाः, कन्याया अपि हर्षतः । सुमङ्गलेति नामैतौ, पितरौ चक्रतुस्तराम् ॥ ५५२ ॥ क्षुधितोऽधयदङ्गुष्ठं, शक्रसंक्रमितामृतम् । इन्द्रादिष्टाप्सरोभिश्च, लाल्यमानोऽश्वयीद्विभुः ॥ ५५३ ॥ किञ्चिदूने गते वर्षे, वंशस्थापनहेतवे । इक्षुयष्टिकरः शक्रः, प्रभोरन्तिकमागमत् ॥ ५५४ ॥ नाभेरङ्कगतः स्वामी, ज्ञानेन त्रिदिवस्पतेः । ज्ञात्वा संकल्पमक्षेप्सीत्करमिक्षुलतां प्रति ॥ ५५५ ॥ यदिक्षुपक्षणं चक्रे, भगवांस्तेन वासवः । वंशस्येक्ष्वाकुरित्याख्यां, प्रभोः कृत्वा दिवं ययौ ॥ ५५६॥ इक्षुपक्षणम्-इक्षुग्रहणम् । विभोरङ्गं मलस्वेदरोगमुक्तं हिरण्यरुक् । मांसरक्ते सिताविस्रे, श्वासोऽम्भोरुहसौरभः ॥ ५५७॥ आहारनीहारविधी अदृश्यौ चर्मचक्षुषाम् । इत्येतेऽतिशया जाताश्चत्वारो जन्मना समम् ॥ ५५८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org