SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् ततः प्रभोः पुरो मूर्ध्नि योजिताञ्जलिकुड्मलः । वृन्दारकाधिराजस्तमस्तावद्वास्तवै स्तवैः ॥ ५३५ ॥ नमस्तुभ्यं जगन्नाथ ! कारुण्यक्षीरसागर ! । संसारमरुकल्पद्रो ! शरणागतवत्सल ! ॥ ५३६॥ अमुष्यामवसर्पिण्यामाद्यधर्माध्वदर्शक ! । युग्मधर्मतिरस्कारिन् ! जय श्रीनाभिनन्दन ! ॥ ५३७॥ युगलम् ॥ सपद्यैरमृताधारैर्गुणैस्तेऽर्हन् ! महोज्ज्वलैः । प्रवाहैरिव गाङ्गेयैर्भुवनं पावनीकृतम् ॥ ५३८ ॥ मोहान्धकारविध्वंसदिनेश्वरसहोदर ! | । धन्यास्त एव ये देव! सेवन्ते त्वत्पदाम्बुजम् ॥ ५३९ ॥ दासदासोऽस्मि भृत्योऽस्मि, किंकरोऽस्मि तव प्रभो ! अतो मयि कृपापात्रे प्रसन्नां दृशमातनु ॥ ५४० ॥ इति स्तुत्वा जिनं शक्रः पूर्ववत् पञ्चरूपभृत् । स्वामियुग्देवतावृन्दैर्वृतो देव्या गृहं ययौ ॥ ५४१॥ वासवोऽर्हत्प्रतिच्छन्दमुपसंहृत्य वेगतः । मातुः श्रीमरुदेवायाः, समीपेऽस्थापयद्विभुम् ॥ ५४२ ॥ इन्द्रोऽवस्वापिनीं निद्रां मरुदेव्या व्यपाहरत् । जिनोच्छीर्षे दुकूले द्वे, कुण्डले चामुचत् कले ॥ ५४३॥ प्रभोर्नेत्रविनोदाय स्वर्णप्राकारभासुरम् । श्रीदामगण्डमद्वैतं वितानेऽस्थापयद्धरिः ॥ ५४४ ॥ अथेन्द्रादेशतः श्रीदः, कोटीर्द्वात्रिंशतं द्रुतम् । सुवर्णरत्नरूप्याणामवर्षन्नाभिमन्दिरे ॥ ५४५ ॥ अर्हतोऽर्हज्जनन्याश्च यः सुरोऽशुभचिन्तकः । तस्यार्जकमञ्जरीवच्छिरो भेत्तेत्यवग्घरिः ॥ ५४६ ॥ Jain Education International For Personal & Private Use Only ५३ www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy