________________
५२
श्रीदानोपदेशमाला (गा. ६.) क्षुद्रहिमवदद्र्यादितीर्थनीरैः सुगन्धिभिः । भृत्वा कुम्भान् सपुष्पांस्तेऽच्युतेन्द्रायोपाढौकयन् ॥ ५२३ ।। सोऽपि तान् स्वकरे कृत्वा, पुष्पाञ्जलिपुरस्सरम् । जिनेन्द्रं स्नपयामास, गीतनृत्यस्तवैः सह ॥ ५२४॥ एवं द्वाषष्टिसंख्याकैरपरैरपि वासवैः ।। निर्ममे स्वामिनो जन्मस्नात्रं मुदितमानसैः ॥ ५२५ ।। अथ शक्रवदीशाननाकस्वामी जिनेश्वरम् । उत्सङ्गसङ्गिनं कृत्वा, सिंहासनमुपाविशत् ॥ ५२६ ॥ ततः सौधर्मकल्पेन्द्रो जगद्भर्तुश्चतुर्दिशम् ।। उत्तुङ्गशृङ्गान् वृषभान् स्फाटिकांश्चतुरोऽकृत ॥ ५२७ ॥ तच्छृङ्गमूलनिर्यद्भिर्वारिधाराकदम्बकैः ।। ऋषभस्वामिनं हर्षात् स्नपयामास वासवः ॥ ५२८॥ वृषभानथ संहत्य वृत्रहा त्रिजगद्गुरोः । अङ्गं प्रमार्जयाञ्चक्रे गन्धकाषायिकांशुकैः ॥ ५२९ ॥ ततो रत्नमये पट्टे तन्दुलै रूप्यनिर्मितैः । स्वामिनः पुरतो लेखा अलिखन्नष्टमङ्गलीम् ॥ ५३० ॥ लेखा:-देवाः । अङ्गरागैर्विलिप्याथ जगन्नाथं पुरन्दरः । पूजयामास वासोभिः, स्वचेतोभिरिवामलैः ॥ ५३१ ।। नानाविधैरलङ्कारैर्युतिद्योतितदिग्मुखैः । विभुं विभूषयामास वासवो वासनावशात् ॥ ५३२ ।। देवप्रकीर्णकुसुमं त्रिरारात्रिकमुच्चकैः । वृत्रहोत्तारयाञ्चक्रे भक्तितो भुवनप्रभोः ॥ ५३३ ।। काहलातालकंसालवेणुवीणामृदङ्गकान् । वादयन्तः सुरा नृत्यं, व्यधुर्गीतिपुरस्सरम् ॥ ५३४ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org