SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् स गोष्पदवदुल्लङ्घ्यासंख्यातद्वीपसागरान् । नन्दीश्वराख्यद्वीपस्थे, दक्षिणे रतिकृद्भिरौ ॥ ५११ ॥ गत्वा विमानं संक्षिप्य श्रीयुगादिजिनेशितुः । प्रदक्षिणीचकार त्रिः सूतिकाया निकेतनम् ॥ ५१२॥ युग्मम् ॥ नत्वा जिनं जिनाम्बां च, दत्त्वावस्वापिनीं हरिः । मातुः पार्श्वे प्रभोः प्रत्यष्ठापयत् प्रतिबिम्बकम् ॥ ५९३ ॥ निर्माय पञ्च रूपाणि शक्र एकेन च प्रभुम् । कराभ्यां स्थापयाञ्चक्रे छत्रमन्येन चाधृत ॥ ५१४ ॥ अन्याभ्यां धारयाञ्चक्रे चामरे चापरेण तु । दम्भोलिदण्डं बिभ्राणो वल्गन् सोऽस्थात् प्रभोः पुरः ॥५१५ ॥ युगलकम् ॥ ततो जयजयारावमुखरीकृतदिग्मुखैः । त्रिदशैः सहितः शक्रः, प्राप मेरुमहीधरम् ॥ ५१६॥ तदन्तः पाण्डुकारामे शिलातिपाण्डुकम्बला । तत्र सिंहासने शक्रः, सार्हन् पूर्वमुखोऽस्थित ॥ ५१७ ॥ अथासनप्रकम्पेनाच्युताद्या हरयो नव । ज्ञात्वा जन्मोत्सवं भर्तुस्तत्रैयुः सपरिच्छदाः ॥ ५१८॥ ततो विंशतिसंख्याका, इन्द्रा भवनवासिनाम् । द्वात्रिंशद् व्यन्तराणां चेन्द्रकौं तत्रैव चाययुः ॥ ५१९॥ आदावच्युतनाकेन्द्रः स्नात्रं कर्तुं जगद्विभोः । किङ्करान् प्रेषयामास, जलाद्यानयनेच्छया ॥ ५२० ॥ योजनास्या रत्नमयाः सौवर्णा रूप्यनिर्मिताः । रत्नस्वर्णमया रौप्यरात्नाः सौवर्णराजताः ॥ ५२१ ॥ सुवर्णरूप्यमाणिक्यमया भौमाश्च भासुराः । कुम्भाः प्रत्येकमष्टाग्रसहस्रं तैर्विचक्रिरे ॥ ५२२॥ Jain Education International For Personal & Private Use Only ५१ www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy