________________
श्रीदानोपदेशमाला (गा. ६.)
सूतिकासदने गत्वा, कृत्वा शय्यागतौ च तौ । गातुं लग्ना गुणानाशाकुमार्योऽर्हजिनाम्बयोः ॥ ४९९ ।। एवमाशाकुमारीभिः सूतिकृत्ये कृते सति । सौधर्माधिपतेः सिंहासनकम्पस्ततोऽभवत् ॥ ५०० ।। तं दृष्ट्वा त्रिदशाधीशोऽवधिज्ञानप्रयोगतः । दक्षिणे भरते जन्म ज्ञातवानादिमप्रभोः ॥ ५०१ ।। सिंहासनादथोत्थाय, संमुखं पदसप्तकम् । गत्वा शक्रस्तवेनेन्द्रस्तुष्टाव प्रथमप्रभुम् ॥ ५०२॥ ततः पदात्यनीकेन्द्रो नैगमेषीन्द्रशासनात् । सुरानाह्वयितुं घण्टां सुघोषाख्यामवादयत् ॥ ५०३ ।। तन्नादानुगता घण्टा द्वात्रिंशल्लक्षसंख्यकाः । स्वनिस्वनैः प्रसर्पद्भिर्देवानवहितान् व्यधुः ॥ ५०४॥ ततः पत्तिचमूस्वामी देवानेवमवोचत ।, भो भोः सुरान् सदारान् वः, समादिशति वासवः ॥ ५०५ ॥ जम्बूद्वीपस्य भरते, नाभेः कुलकृतो गृहे । आद्यतीर्थपतेर्जन्ममहोत्सवविधित्सया ॥ ५०६ ॥ सर्वैरपि समेतव्यमित्याज्ञां वासवस्य ते । निशम्य सपरीवारास्तदैव तमुपाययुः ॥ ५०७॥ युग्मम् ॥ अथ शक्रः समादिक्षत् पालकाख्याभियोगिकम् । विमानं पालकं लक्षयोजनप्रमितं कुरु ॥ ५०८॥ सोऽपि तस्याज्ञया रत्नमयं कृत्वा विमानकम् । उपढौकितवान् स्वामिशासनं को हि लङ्घते ॥ ५०९ ।। सदारः सपरीवारस्तत्र सिंहासनस्थितः । कृतकृत्यमिवात्मानं मन्वानो मघवाचलत् ॥ ५१० ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org