________________
४९
सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् उत्तराद्रुचकादष्टौ तत्रैत्याशाकुमारिकाः । चामरैर्वीजयामासुः प्रभुं चन्द्रप्रभानिभैः ॥ ४८७ ।। विदिग्रुचकवासिन्यश्चतस्रो दिक्कुमारिकाः । नाभिनालं विभोश्छित्त्वा, प्राक्षिपन् विवरोदरे ॥ ४८८ ॥ तच्छिद्रं भासुरै रत्नैः पूरयामासुराशु ताः । वितेनुः पीठिकाबन्धं, तस्योपरि च दूर्वया ॥ ४८९ ॥ सूतिकागृहतोऽपाचीप्राच्युत्तरहरित्स्विमाः । त्रीन् रम्भानिलयांश्चक्रुश्चतु:शालोपशोभितान् ॥ ४९० ।। तत्र याम्ये चतुःशाले रत्नसिंहासनोपरि । निवेशयाञ्चक्रिरे ताः सजिनां जिनमातरम् ॥ ४९१ ।। लक्षपाकेण तैलेन, सुगन्धेनाभिषज्य तौ । उद्वर्त्तनेन दिव्येनोद्वर्त्तयामासुराशु ताः ॥ ४९२ ॥ ततः प्राच्यचतुःशाले, तौ नीत्वा जिनमातरौ । विनिवेश्यासने नीरैः, स्नपयाञ्चक्रिरेतराम् ॥ ४९३ ।। गन्धकाषायिकावस्त्रैस्तास्तदङ्गममार्जयन् । चन्दनैर्वसनैश्चित्रैर्भूषणैश्च व्यभूषयन् ॥ ४९४ ॥ नीत्वोत्तरचतुःशाले, देव्यः सिंहासनोपरि । न्यवेशयन् जिनाधीशं, मरुदेवी च हर्षतः ॥ ४९५ ।। अथाभियोगिकैर्देवैर्हिमवद्भूधराल्लघोः । गोशीर्षचन्दनैधांस्यानाययामासुराशु ताः ॥ ४९६ ।। अरणेर्दारुयुग्मेण समुत्पाद्येन्धनञ्जयम् ।। गोशीर्षचन्दनै)मं, व्यधुस्ता इन्धनीकृतैः ॥ ४९७ ।। भस्मना तेन तेनुस्ता रक्षापोट्टलिकां प्रभोः । शैलायुश्च भवेत्युक्त्वास्फालयन् गोलकौ च तौ ॥ ४९८ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org