SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ४८ श्रीदानोपदेशमाला (गा. ६. ) उत्तराषाढगे चन्द्र, उच्चस्थेषु ग्रहेषु च । देव्यासावि सुतो युग्मधर्मी प्राच्येव भास्करः असावि-प्रसूतः । तदानुकूलोऽवाद्वायुर्दिशो वैशद्यमासदन् । प्रजा मुमुदिरे नित्यदुःखिनोऽपि हि नारकाः ॥ ४७६ ॥ विभोर्विश्वचमत्कारिमाहात्म्यादिव दुन्दुभिः । भृत्यैरनाहतोऽप्युच्चैर्दध्वान गगनाङ्गणे ॥ ४७७ ॥ सूतिकालयपार्श्वेलारजो जहुः समीरणाः । चेलक्षेपं च गन्धाम्बु ववृषुर्वारिदा मुदा ॥ ४७८ ।। अथाधोलोकवासिन्यो दिक्कुमार्योऽष्टसमिताः । प्रकम्पितासनाः सद्यः सूतिकालयमैयरुः ॥ ४७९ ॥ ता नत्वा स्वामिनीमाहुर्मातर्मा भीर्मुदं भज * । त्वत्पुत्रजन्ममहिमकृतेऽत्र वयमागताः ॥ ४८० ॥ इत्युक्त्वेशानकोणे ता स्तम्भैर्दशशतैर्युतम् । सूतिकासदनं चक्रुः स्वर्विमानमिवापरम् ॥ ४८१ ॥ देव्यः संवर्त्तवातेन परितः सूतिकागृहम् । आयोजनकण्टकाद्यमपाहार्षुः प्रहर्षुलाः ॥ ४८२ ॥ अष्टोर्ध्वलोकवासिन्योऽप्यागत्याशाकुमारिकाः । ववृषुस्तत्र गन्धाम्बु पञ्चवर्णसुमानि च ॥ ४८३॥ ततोऽष्टौ पूर्वरुचकवासिन्यो दिक्कुमारिकाः । तत्रैत्य दर्शयाञ्चक्रुर्दर्पणं त्रिजगद्गुरोः ॥ ४८४ ॥ दक्षिणाद्रुचकादष्टौ तत्रैयुर्दिक्कुमारिकाः । रत्ननिर्वृत्तभृङ्गारं दधत्यः करसम्पुटे ॥ ४८५ ॥ पश्चिमाद्रुचकादष्टौ तत्रैयुर्दिक्कुमारिकाः । दधानास्तालवृन्तानि खचितानि मणीगणैः ॥ ४८६॥ * मा भीर्भज... मुदं भजेत्यन्वयः । Jain Education International ॥ ४७५ ॥ युग्मम् ॥ For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy