SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् कर्मद्रन्मूलनेऽलङ्कमणः कलभदर्शनात् । सिंहावलोकनान्निर्भीर्नृसिंहोऽद्भुतविक्रमः ॥ ४६३ ॥ अभिषेकेक्षणात् क्षोणीपालमूर्धाभिषिक्तकः । मालावलोकनाद् विश्वमनुष्यैर्धार्यशासनः ॥ ४६४॥ अभिषेकेक्षणात्-अभिषेकसहितलक्ष्मीदर्शनात्, (अभिषेक + ई + ईक्षणात् ) । नेत्रानन्दकरो नृणां निशाकरनिभालनात् । रवेरीक्षणतो मोहध्वान्तविध्वंसनक्षमः ॥ ४६५॥ ध्वजदर्शनतो धर्मध्वजादिप्रतिहार्यभूः । , निध्यानात् पूर्णकुम्भस्य, जगन्मङ्गल्यदर्शनः ॥ ४६६॥ सर: प्रदर्शनाद् विश्वतापव्यापापहारकः । क्षीरनीरधिनिध्यानाद् गुणरत्ननिवासभूः ॥ ४६७ ॥ विमानदर्शनाद्वैमानिकदेवेन्द्रवन्दितः । रत्नपुञ्जेक्षणाद्रत्नत्रयधारिशिरोमणिः ॥ ४६८ ॥ निर्धूमाग्न्यवलोकाच्च कर्मेन्धनविनाशकृत् । सर्वस्वप्नेक्षणादेष मनुरज्जुजगत्पतिः ॥ ४६९ ॥ आदिकुलकम् ॥ मनुरज्जुजगत्पतिः-चतुर्दशरज्वात्मकविश्वाधिपः । इति स्वप्नफलं सम्यग् व्याख्याय त्रिदशाधिपाः । स्वामिनीं मरुदेवीं च नत्वा स्वः सदमासदन् ॥ ४७० ॥ मरुदेवापि शक्रेभ्यः श्रुत्वा स्वप्नभवं फलम् । मेघसिक्तमहीवाभूद् रोमाञ्चाङ्करदन्तुरा ॥ ४७१ ॥ स्वामिनी श्यामवर्णापि, तेन गर्भेण पाण्डुताम् । उवाह शालि श्रेणीव, फलयोगेन हारिणा ॥ ४७२ ॥ प्रभुप्रभावतो नाभिर्मान्योऽभूद्युग्मधर्मिणाम् । कल्पद्रवोऽप्यभीष्टार्थदातारो जज्ञिरे तदा ॥ ४७३ ॥ नवमासेष्वतीतेषु दिनेष्वर्द्धाष्टमेषु च । चैत्रस्य बहुलाष्टम्यां यामिनीयामयामले ॥ ४७४ ॥ Jain Education International For Personal & Private Use Only ४७ www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy