SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् अथ श्रीकान्तया प्रान्ते सुषुवेऽपत्ययामलम् । श्रीनाभिर्मरुदेवेति काममूर्त्तिविडम्बकम् ॥ ४३९ ।। तौ पञ्चविंशत्यधिकपञ्चधन्वशतोन्नतौ । बिभ्राणावायुः संख्यातपूर्वकं पितृतोऽल्पकम् ॥ ४४० ॥ सुवर्णफलिनीवर्णसमाङ्गौ मिलितौ मिथः । मेरुनन्दनवृक्षालीतुलनां दधतुः कलाम् ॥ ४४१ ॥ युग्मम् ॥ मृत्वा द्वीपकुमारत्वं मरुदेवः समासदत् । तत्कालमेव श्रीकान्ता व्याप नागकुमारताम् ॥ ४४२ ॥ सप्तमोऽभूत्कुलकरो नाभिस्तदनुयुग्मिनः । निखिलानपि हि न्याय्ये, पथि प्रावर्तयन्मुदा ॥ ४४३ ॥ पूर्वाणां चतुरशीत्या सनवाशीतिपक्षया । न्यूनेऽतीतेऽवसर्पिण्या दुःषमासुषमारके ॥ ४४४ ॥ आषाढस्यादिमपक्षे चतुर्थीतिथिवासरे । उत्तराषाढनक्षत्रयोगयुक्ते निशाकरे ॥ ४४५ ।। सागराणां त्रयस्त्रिंशदायुर्मानं प्रभुज्य सः । च्युतः श्रीवज्रनाभस्य जीवः सर्वार्थसिद्धतः ॥ ४४६ ॥ श्रीनाभिपत्न्याः स्वामिन्या मरुदेव्या वरोदरे । अवातरन्नभोदेशान्मराल इव मानसे ॥ ४४७॥ चतुर्भिः कलापकम्॥ तदा गर्भावतीर्णेऽस्मिन्, स्वामिनि त्रिजगत्यपि । बभूव परमानन्द उद्द्योतश्च समंततः ॥ ४४८ ॥ तस्यामेव विभावाँ वासवेश्मनि सुप्तया । चतुर्दश महास्वप्ना दृष्टा श्रीमरुदेवया ॥ ४४९ ॥ पूर्वं वृषः सितस्तुङ्गः कैलास इव जङ्गमः । श्वेतो दन्ती चतुर्दन्त ऐरावण इवापरः ॥ ४५० ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy