SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ सत्पात्रदानविषये श्रीयुगादिदेवचरित्रम् जातिस्मृत्या स नीतिज्ञो, युग्मी विमलवाहनः । तेभ्यो विवादच्छेदाय विभज्यादात्सुरद्रुमान् ॥ ४१५ ॥ परकल्पद्रुमस्यार्थे, यो यः सन्धां विमुक्तवान् । तद्दण्डनाय हाकारनीतिमेष प्रयुक्तवान् ॥ ४१६॥ विरूपं हा त्वयाकारीत्यस्य वाणीं निशम्यते । तथैव तस्थुरालेख्यलिखिता इव युग्मिनः ॥ ४१७॥ तस्यायुषोऽवशेषे च षण्मासप्रमिते सति । प्रियायां चन्द्रयशसि युग्मं समुदपद्यत ॥ ४१८ ॥ तौ स्त्रीपुंसावष्टधन्वशतोच्चौ श्यामलच्छवी । असंख्यातपूर्वायुष्कावाद्यसंस्थानसंस्थिती ॥ ४१९॥ चक्षुष्मांश्चन्द्रकान्तेति जनकाभ्यां कृताभिधौ । पालितौ प्रापतुर्वृद्धिं, वयोबुद्धिगुणाविव ॥ ४२० ॥ मृत्वोत्पेदे सुपर्णेषु देवो विमलवाहनः । चन्द्रयशाश्च हस्ती च मृत्वा नागेषु जग्मतुः ॥ ४२१ ॥ चक्षुष्मतोऽपि हाकारनीतिं युगलधर्मिणः । सिन्धुवेलाजलानीव मर्यादां नातिचक्रमुः ॥ ४२२ ॥ संवृत्ते चरमे काले तयोर्युग्ममजायत । यशस्वी च सुरूपा च तनयत्वेन तत्समम् ॥ ४२३॥ मनागूनायुषौ पित्रोः सप्तधन्वशतोच्छ्रयौ । बिभराञ्चक्रतुर्वृद्धिं तौ वल्लीपादपाविव ॥ ४२४ ॥ पूर्णायुष्क सुपर्णेषु चक्षुष्मानुदपद्यत । तदैव चन्द्रकान्तापि ययौ नागकुमारताम् ॥ ४२५॥ उल्लङ्घितायां हानीतौ यशस्वी स्थितिहेतवे । ततो हाकारमाकारनीतियुग्मं व्यधात्सुधीः ॥ ४२६ ॥ Jain Education International For Personal & Private Use Only ४३ www.jainelibrary.org
SR No.004036
Book TitleDanopdeshmala
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2002
Total Pages438
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy